भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 176, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 176

नवमः पटलः । ६५ अभिमन्त्र्य च तत्तोयं प्रथमं पू(र्वै?र)कैः पिबेत् ॥ ४६ ॥ कुम्भकेन द्वितीयं तु तृतीयं रेचकेन तु । एवं सकृत् त्रिवारं तु पीत्वा तोयं विचक्षणः ॥ ५० ॥ दृढाङ्गः पण्डितो भूयात् पुत्रपौत्रसमन्वितः । त्रिसंध्यमथ पीत्वैवं मातृकामन्त्रमन्त्रितम् ॥ ५१ ॥ तोयं कवित्वमाप्नोति सर्वान् कामांस्तथैव च । सततं कुरुते यस्तु मातृकामन्त्रमन्त्रितम् ॥ ५२ ॥ तोयदा[पा]नं महादेवि पूरकुम्भकरेचकैः । स सर्वकामान् संप्राप्य पुत्रपौत्रसमृद्धिमान् ॥ ५३ ॥ भूत्वा महाकविर्लोके बलवान् सत्यविक्रमः । सर्वत्र दुर्लभो भूत्वा चान्ते मोक्षमवाप्नुयात् ॥ ५४ ॥ राजानमथवा राजपुत्रं भार्यां च वा प्रिये । वशीकरोति न चिरान्मातृकामन्त्रपालकः ॥ ५५ ॥ ————— इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे करशुद्ध्यन्तर्बहिर्मातृकान्यासवर्णनं नाम नवमः पटलः ॥ ६ ॥