गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 177, कुल 446 में से
संदर्भ में पढ़ेंदशमः पटलः । श्रीदेव्युवाच षोढाख्यां मातृकां देव कथयस्व वृषध्वज । ईश्वर उवाच गणेशैः प्रथमो न्यासो द्वितीयस्तु ग्रहैर्मतः ॥ १ ॥ नक्षत्रैश्च तृतीयः स्याद्योगिनीभिश्चतुर्थकः । राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते ॥ २ ॥ षोढा न्यासस्त्वयं प्रोक्तः सर्वकामफलप्रदः । श्रीदेव्युवाच फलं चास्य प्रयोगं च विशदीकुरु तत्त्वतः ॥ ३ ॥ ईश्वर उवाच नारायणोऽस्यैर्षि प्रोक्तश्छन्दस्त्रिष्टुबुदाहृतम् । शिवशक्त्यात्मवर्णा(ऋषी?राशि)र्देवता च सदाशिवः ॥४॥ हंसः शक्तिः परा बीजं श्रीबीजं चैव कीलकम् । पुरुषार्थप्रसाध्ये च विनियोगः प्रकीर्तितः ॥ ५ ॥ मूर्ध्नि संचिन्तयेद्देवि श्रीगुरुं शिवरूपिणम् । (१) रमाबीजं परं पश्चाद्धंसात् स्वराद्यमीरितम् ॥ ६ ॥ विघ्नेश्वराय वै प्रोच्य श्रियै नमस्ततः परम् ⊛ । विघ्नराजादिकानेवं शक्तियुक्तांस्तथैव च ॥ ७ ॥ विन्यसेन्मातृकास्थाने मातृकैकान्वितं शिवे । विघ्नराजाय देवेशि(क्रि?ह्रि)यै नमस्ततः परम् । ८ १ ‘ऋषि’ क पाठ । * अंविरेश्वराय श्रियै नमो ललाटे इत्यादिरूपो न्यासो बोध्य ।