गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 178, कुल 446 में से
संदर्भ में पढ़ेंदशमः पटलः । ६७ विनायकाय च तुष्ट्यै शांत्यै शिवोत्तमाय च । विघ्नकर्त्रे तथा पुष्ट्यै नम इति प्रविन्यसेत् ॥ ९ ॥ विघ्नहर्त्रे सरस्वत्यै नम इति प्रविन्यसेत् । विनायकाय मेधायै पूर्ववच्च विन्यसेत् ॥ १० ॥ एकदन्ताय कान्त्यै च द्विदन्ताय च योंमिनीम् । गजवक्त्राय मोहिन्यै निरञ्जनजटे❄तथा ॥ ११ ॥ कपर्दिने च तीव्रायै ज्वालिनी दीर्घवक्त्रकः । शङ्कुकर्णाय नन्दायै खरसा च वृषध्वजः ॥ १२ ॥ गणनायश्च कामिन्या गजेन्द्रश्च शुभा तथा । जयिनी शूर्पकर्णश्च सत्यया च त्रिलोचनः ॥ १३ ॥ लम्बोदराय विघ्नेश्र्यै महानन्दैः३ स्वरूपिणी । कामदया चतुर्मूर्तिः सदाशिवस्ततः परम् ॥ १४ ॥ मदविह्वलया युक्त आमोदो विकटायुतः । दुर्मुखाय च घूर्णायै सुमुखो भूतिसंयुतः ॥ १५ ॥ प्रमदाय तथा भूम्यै एकपादो मतिस्तथा । द्विजिह्वो रमया युक्तः सुरसेनश्च मानुषी ॥ १६ ॥ मकरध्वजया युक्तो वीरश्च परमेश्वरि । षण्मुखाय विकर्णायै वरदो भृङ्क(?भ्रुकु)टीयुतः ॥ १७ ॥ वामदेवाय लज्जायै दीर्घघोणायुतस्ततः । वज्रतुण्डो द्विरण्डश्च धनुर्धरायुतः प्रिये ॥ १८ ॥ १ 'ह' क पाठः 'कृते' ख पाठ । २ 'का' ख पाठ । ३ 'न्दश्च' क. पाठः । ❄ निरञ्जनाय जटायै नम इति प्रयोगो बोध्यः ।