गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 179, कुल 446 में से
संदर्भ में पढ़ेंसेनान्ये चैव यामिन्यै ग्रामणी रात्रिसंयुतः । मत्तश्चन्द्रिकया युक्तो विमत्तायै शशिप्रभा ॥ १६ ॥ तथैव परमेशानि लोलया मत्तवाहनः । जटि[ले?ने]चपलाद्यै च मुण्डी वृद्धियुतस्तथा ॥ २० ॥ खङ्गी दुर्भगया युक्तो वरेश्यः [शु?सु]भगायुतः । न्यस्तव्यः परमेशानि शिवया वृषकेतनः ॥ २१ ॥ भक्त¹प्रियाय दुर्गायै मेघनादाय कामिनी । कालकुब्जा⁵समायुक्तो गणेश्वरः प्रकीर्तितः ॥ २२ ॥ गणेशो विघ्नहारिण्या न्यस्तव्यः साधकोत्तमैः । [२] सूर्यमुखान् महादेवि न्यसेत् कामदुघानथ ॥ २३ ॥ स्वरान् पूर्वं समुद्धृत्य चन्द्रबिन्दुसमन्वितान् । सूर्याय नम उच्चार्य हृदये च प्रविन्यसेत् ॥ २४ ॥ भ्रुवोर्मध्ये तथा सोमं [ष?य]वर्गेण प्रविन्यसेत् । भूपुत्रं लोचनद्वन्द्वे कवगेण तथैव च ॥ २५॥ बुधं च हृदये देवि चवर्गेण प्रविन्यसेत् । बृहस्पतिं तथा कण्ठे टवर्गेण प्रविन्यसेत् ॥ २६ ॥ भार्गवं तु गले देशे तवर्गेण तथा प्रिये । पवर्गेण शनिं नाभौ राहुं गुदे शवर्गकैः ॥ २७॥ ळक्षाभ्यां पादयोः केतुं न्यसेदेवं विधानतः । (३) स्वराद्यं च द्वितीयं च अश्विन्यै नम इत्यपि ॥२८॥ ललाटे च प्रविन्यस्य तथान्यानपि विन्यसेत् ।
पादटिप्पणी: १ 'लाय' ख पाठ । २ 'क्षित्यै' क. पाठ. । ३ 'द्य' ख पाठ । ४ 'लिका' ख. पाठ । ५ 'जिह्वा' ख पाठ ।