गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 183, कुल 446 में से
संदर्भ में पढ़ें१०२ गन्धर्वतन्त्रे । पीतवर्णां महामत्तां गजकुम्भोपमस्तनीम् ॥ ५६ ॥ दध्यन्ना[श?स]क्तचित्तां च सुरप्रवरवन्दिताम् । शूलं डमरुकं चैव पाशं चाभयमेव च ॥ ६० ॥ वहन्तीं परमेशानीं बादिलान्तात्मविग्रहाम् । बादिलान्तांस्तथा कांकींकमलवरयूं ततः ॥ ६१ ॥ काकिन्यै नम इत्यन्ते संबोध्य चैव काकिनीम् । मेदोधातुगते पश्चात् तथाष्ट(दल?लक्ष)कोटि च ॥ ६२ ॥ योगिनीस्वामिनि प्रोच्य पूर्ववदपरं तथा । पञ्चवक्त्रां त्रिनेत्रां च वह्निभानुस्वरूपिणीम् ॥ ६३ ॥ चापं बाणं तथा पाशं स्त्रैणि च पुस्तकं तथा । ज्ञानमुद्रां च हस्ताब्जैर्दधतीं परमेश्वरीम् ॥ ६४ ॥ मुद्द्रान्नप्रीतिसंयुक्तां मूलाधारे विचिन्तयेत् । वादि[ध?सा]न्तांस्तथा सांर्सींसमलवरयूं तथा ॥ ६५ ॥ [शा?सा]किन्यै नम इत्यन्ते संबोध्य साकिनीं ततः । अस्थिधातुगते चैव चतुर्लक्षेति कोटि च ॥ ६६ ॥ योगि(नि?नी) स्वामिनि प्रान्ते वरवरदपदं तथा । बिन्दुस्थां शुक्लवर्णां च हक्षवर्णस्वरूपिणीम् ॥ ६७ ॥ डमरुं चाक्षसूत्रं च कपालं खड्गमेव च । पुस्तकं ज्ञानमुद्रां च दधतीं बाहुभिः सदा ॥ ६८ ॥ लोचनत्रयसंयुक्तां षड्वक्त्रां सर्वमोहिनीम् । १ 'न्त' क पाठः । २ 'नि' क पाठ । ३ 'सृ' क पाठः । ४ 'न्तास्त' क पाठ । ५ 'शाशी श' क पाठः । ६ 'शा' क पाठ ।