भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 184, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 184

दशमः पटलः । १०३ हरिद्रान्नप्रसक्ता च मधुमदमुदान्विताम् ॥ ६६ ॥ देवेन्द्रवन्दितां देवीं भावयेद्धाकिनीं पराम् । हंक्षंहांहीं च देवेशि हमलवरयूं तथा ॥ ७० ॥ हाकिन्यै नम उच्चार्य संबोध्य चैव हाकिनीम् । मज्जाधातुगते पश्चाद् द्विलक्षकोटिशब्दतः ॥ ७१ ॥ शेषं पूर्ववदुद्धृत्य भ्रुवोर्मध्ये प्रविन्यसेत् । अकारादिक्षकारान्तां मातृकां सर्वमुद्धरेत् ॥ ७२ ॥ यांयीं^२ तु परमेशानि यमलवरयूं तथा । याकिन्यै नम इत्यन्ते संबोध्यैव तु याकिनीम् ॥ ७३ ॥ शुक्रधातुगते पश्चाद्दशकोटिपदं ततः । पूर्ववच्च प्रविन्यस्य (५) राशिन्यासमतः परम् ॥ ७४ ॥ ❀वेदार्णैर्दक्षगुल्फेऽथ मेषं विन्यस्य पार्वति । दक्षजानौ वृषं त्र्यर्णैर्वृषणे मिथुनं त्रिभिः ॥ ७५ ॥ द्वाभ्यां कर्कटकं कुक्षौ द्वाभ्यां स्कन्धेऽथ सिंहकम् । अनुस्वारविसर्गाभ्यां शवर्गेण च कन्यकाम् ॥ ७६ ॥ दक्षिणे च शिरोभागे विन्यसेद्वीरवन्दिते । तथा वामशिरोभागे कवर्गेण तुलां न्यसेत् ॥ ७७ ॥ चवर्गेण तथा स्कन्धे वृश्चिकं विन्यसेत् ततः । टवर्गेण तथा कुक्षौ धन्विनं विन्यसेत् ततः ॥ ७८ ॥ मकरं तु तवर्गेण वृषणे (दक्षिणे?वामके) न्यसेत् । १ 'ष' क पाठः । २ 'यां' क पाठ ।

  • ॐ आं ह्रीं ईं मेषाय नमो दक्षगुल्फे इत्यादि ज्ञेयम् । वेदार्णैश्चतुरभिरक्षरैरित्यर्थः ।
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक) · पृष्ठ 184, कुल 446 में से · BharatKosha