गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 185, कुल 446 में से
संदर्भ में पढ़ें१०४ गन्धर्वतन्त्रे । पवर्गेण तथा कुम्भं वामजानुनि विन्यसेत् ॥ ७६ ॥ यवर्गेण चकारेण मीनं गुल्फे तु वामके । चतुर्थीनतिसंयुक्तं स्थानेष्वेवं क्रमान्न्यसेत् ॥ ८० ॥ (६)अथ [पि?पी]ठानि विधिना यथास्थाने प्रविन्यसेत् । परापूर्वं च सर्वेषां मातृकां च पृथक् पृथक् ॥ ८१ ॥ चतुर्थीनतियुक्तानि मातृकावन्न्यसेत् क्रमात् । कामरूपं महापीठं वाराणसीं ततः परम् ॥ ८२ ॥ नेपालं१ च महापीठं पौण्ड्रवर्धनमेव चै३ । पुरास्थिरं महादेवि चरस्थिरमतः परम् ॥ ८३ ॥ पूर्णशैलं महापीठमर्बुदं च ततः परम् । काश्मीरं च तथा पीठं कान्यकुब्जमथो भवेत् ॥ ८४ ॥ आम्रातकेश्वरं पीठमेकाम्रं च ततः शिवे । त्रिस्रोतः पीठमुद्दिष्टं कामकोट्ठर्मतः परम् ॥ ८५ ॥ कैलासं भूतगरं केदारं पीठमुत्तमम् । श्रीपीठं च तथोंकारं जालन्धरमतः परम् ॥ ८६ ॥ मालवं च कुलान्तं च देवमातृकमेव च । गोकर्णं च ततो देवि मारुतेश्वरमेव च ॥ ८७ ॥ अट्टहासं च विरजं राजगृहमतः परम् । पीठं कोल्लागिरिं चैव एलापुरमतः प्रिये ॥ ८८ ॥ कालेश्वरमहापीठं प्रणवं च जयन्तिका । १ 'व' क पाठ । २ 'मेदान' क पाठ । ३ 'पौगण्डवर्द्धन तथा' ख पाठ । ४ 'दारु- केश महा' ख पाठ । ५ 'प्र' ख पाठ । ६ 'टि' ख पाठ । ७ 'नव' क पाठ. ।