गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 192, कुल 446 में से
संदर्भ में पढ़ेंएकादशः पटलः । १११ पादयोर्गुह्यदेशे च पार्श्वयोर्हृदयाम्बुजे ॥ ६३ ॥ स्तनयोः कण्ठदेशे च न्यसेदेवं विधानतः । चतुर्व्यूहं ततो देवि न्यसेत् पीठसमन्वितम् ॥ ३७ ॥ *मूलवाग्भवमुच्चार्य अग्निचक्रेपदं ततः । कामगिर्यालये पश्चान्मित्रेशपदमुद्धरेत् ॥ ३८ ॥ नाथात्मकेपदं पश्चात् कामेश्वरी पदं ततः । रुद्रात्मशक्तिशब्दाच्छ्रीपादुकायै नमो न्यसेत् ॥ ३६ ॥ आधारे परमेशानि हृदये च ततः परम् । मूलद्वि[त?ती] यमुच्चार्य सूर्यचक्रेपदं ततः ॥ ४० ॥ जालन्धरपदात् पीठे षष्ठीशनाथशब्दतः । आत्मकेपदमाभाष्य वज्रेश्वरीपदं ततः ॥ ४१ ॥ विष्ण्वात्मशक्तिशब्दान्ते पूर्ववच्च तदीरितम् । शक्तिकूटं समुच्चार्य सोमचक्रेपदं ततः ॥ ४२ ॥ पूर्णगिरिपदान्ते च पीठेपदमतः परम् । उड्डीशपरतो देवि नाथात्मकेपदं ततः ॥ ४३ ॥ तदन्ते योजयेद्देवि भगपूर्वा च मालिनी । ब्रह्मात्मशक्तिशब्दान्ते पूर्ववद् द्विद्ले न्यसेत् ॥ ४४ ॥ तुर्यबीजमथोच्चार्य ब्रह्मचक्रेपदात् ततः । तथैवोड्रयानपीठे तु [व?च]र्यानाथात्मकेपदम् ॥ ४५ ॥ तदन्ते परमेशानि महात्रिपुरसुन्दरी । १ 'श्री' क पाठ । २ 'मी' क पाठ ।
- स्पष्टं यथा ऐं अग्निचक्रे कामगिर्यालये मित्रेशनाथात्मके कामेश्वरीरुद्रात्मशक्ति- श्रीपादुकायै नम आधारे । एवमग्रेऽपि बोध्यम् ।