गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 193, कुल 446 में से
संदर्भ में पढ़ें११२ गन्धर्वतन्त्रे । परंब्रह्मात्मशक्त्यन्ते पूर्ववद् ब्रह्मरन्ध्रके ॥ ४६ ॥ विन्यस्यैवं महेशानि तत्त्वन्यासं समाचरेत् । मूलादिब्रह्मरन्ध्रान्तं मूलान्तं पुनरेव हि ॥ ४७ ॥ मूलवाग्भवमुच्चार्य आत्मतत्त्वपदं ततः । [स्वा?ख्या]पिकायै चतुर्थ्यन्ता महात्रिपुरसुन्दरी ॥ ४८ ॥ नम इति प्रविन्यस्य कामराजमतः परम् । विद्यातत्त्वपदात् पूर्वं पूर्ववद् हृदयावधि ॥ ४६ ॥ न्यसे(त्वात्मी?त्तार्ती)यबीजान्ते शिवतत्त्वस्वरूपिणीम् । मूलादिब्रह्मरन्ध्रान्तं तदादिभ्रूलतावधि ॥ ५० ॥ ततो न्यसेन्महादेवि विद्याकूटत्रयं पृथक् । करयोर्मूलमध्याग्रमूलहृद्गुह्युगान्तरे ॥ ५१ ॥ मूलविद्यात्रयावृत्त्या स्थानेष्वेषु क्रमान्न्यसेत् । ब्रह्मरन्ध्रे तुरीयं च तेनैव व्यापकं न्यसेत् ॥ ५२ ॥ ब्रह्मरन्ध्रे तथाधारे हृदि नेत्रत्रये तथा । कर्णयोर्मुखवृत्ते च भुजयोः पृष्ठदेशके ॥ ५३ ॥ जानुद्वये तथा नाभौ मूलवर्णान् प्रविन्यसेत् । स्वयं मन्त्रतनुर्भूत्वा देवीं मन्त्रमयीं यजेत् ॥ ५४ ॥ त्रैलोक्यमरुणं ध्यायञ् श्रीविद्यां मनसि स्मरेत् । योनिमुद्रां महेशानि ब्रह्मरन्ध्रे प्रविन्यसेत् ॥ ५५ ॥ ललाटे च प्रविन्यस्य भ्रुवोर्मध्ये च विन्यसेत् । मुखे कण्ठप्रदेशे तु हृदये तामनुक्रमात् ॥ ५६ ॥ १ 'र' क पाठ । २ 'प्र' क पाठ ।