गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 194, कुल 446 में से
संदर्भ में पढ़ेंएकादशः पटलः । ११३ न्यासः संमोहनाख्योऽयं त्रैलोक्यमोहनक्षमः । श्रीदेव्युवाच अन्तर्यागविधिं ब्रूहि बहिर्यागविधिं तथा ॥ ५७ ॥ ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यजनं चान्तरं महत् । मनोजीवात्म(नः?नोः)शुद्धिः प्राणायामेन जायते ॥५८॥ अन्तर्गतं यच्च मलं तच्च शुद्धं प्रजायते । प्राणायामैर्विना देवि कृतं कर्म निरर्थकम् ॥ ५६ ॥ प्राणायामात्परं तत्त्वं प्राणायामात् परं तपः । प्राणायामात् परं ज्ञानं प्राणायामात् परं पदम् ॥ ६० ॥ प्राणायामात्परं योगं प्राणायामात्परं धनम् । नास्ति नास्ति पुनर्नास्ति कथितं तव सुव्रते ॥ ६१ ॥ वत्सराभ्यासयोगेन ब्रह्म साक्षाद्द्भवेद् ध्रुवम् । चैतन्यावरणं यद्भूत् क्षीयते नात्र संशयः ॥ ६२ ॥ प्राणायामं विना मुक्तिमार्गो नास्ति मयोदितम् । प्राणायामेन मुनयः सिद्धिमापुर्नचान्यथा ॥ ६३ ॥ प्राणायामपरो योगी न योगी शिव एव सः । गमनागमनं वायोः प्राणस्य धारणं तथा ॥ ६४ ॥ प्राणायाम इति प्रोक्तो योगशास्त्रविशारदैः । प्राणो वायुरिति ख्यात आयामस्तन्निरोधनम् ॥ ६५ ॥ प्राणायाम इति प्रोक्तो योगिनां योगसाधनम् । बाह्यादापूरणं वायोरुदरे पूरको भवेत् ॥ ६६ ॥
१ 'हु' क पाठ ।