गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 197, कुल 446 में से
संदर्भ में पढ़ें११६ गन्धर्वतन्त्रे । मुनीनां च मुमुक्षूणामधिकारोऽत्र केवलम् ॥ ८७ ॥ प्रातः सायं चरेन्नित्यं षोडश प्राणसंयमान् । नाशयेत् सर्वपापानि तृणराशिमिवानलः ॥ ८८ ॥ सर्वेषामेव पापानां प्रायश्चित्तमिदं स्मृतम् । स्वदेहस्थं यथा सर्पश्वर्मोत्सृज्य निरामयः ॥ ८६ ॥ प्राणायामात्तथा मुञ्चेदविद्याकामकर्मकम् । परोपपापजं पापं परद्रव्यापहारजम् ॥ ६० ॥ परस्त्रीमैथुनोत्पन्नं प्राणायामशतं दहेत् । महापातकजातानि ब्रह्महत्यादिकानि च ॥ ६१ ॥ सर्वाण्येतानि दह्यन्ते प्राणायामचतुःशतैः । (नमः१मनः)शक्तिः समाख्याता पञ्चास्योः२ पञ्च देहगाः ६२ एकरूपं शिवं कृत्वा तदङ्के तां निवेशयेत् । शून्यरूपे परे स्थाप्य तावुभौ सममास्थितौ ॥ ६३ ॥ चिन्तयेत् साधको नत्वा नादरूपं तयोः क्रमात् । तदन्तर्मनसात्मानं ज्योतीरूपं सनातनम् ॥ समाधिना समागत्य त्यजेत् संसारबन्धनम् ॥ ६४ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे नित्यन्यासान्तर्यागविधिनिरूपण- मेकादशः पटलः ॥ ११ ॥ १ 'मम्' क पाठ । २ 'स्या पञ्च गे' क पाठः ।