गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 196, कुल 446 में से
संदर्भ में पढ़ेंएकादशः पटलः । ११५ मूलाद्ब्रह्मरन्ध्रान्तं बिसतन्तुस्वरूपिणीम् । उद्यत्सूर्यसहस्राभां ध्यायेन्मन्त्रात्मदेवताम् ॥ ७७ ॥ कुण्डलीं त्रिविधां तत्र तथा बीजत्रयं त्रिधा । तुरीयां कुण्डलीं मूर्ध्नि महात्रिपुरसुन्दरीम् ॥ ७८ ॥ वाग्भवं मूलदेशे च द्रुतस्वर्णनिभं स्मरेत् । मूलादिहृदयं यावद् वह्निकुण्डलिनीं तथा ॥ ७९ ॥ हृदये कामराजं च सूर्यकोटिसमप्रभम् । सूर्यकुण्डलिनीं तत्र सूर्यकोटिसमप्रभाम् ॥ ८० ॥ हृदयाद्गलपर्यन्तं ध्यायेदनाकुलः शिवे । भ्रूमध्ये शक्तिबीजं तु चन्द्रकोटिसमप्रभम् ॥ ८१ ॥ भ्रूमध्याद् ब्रह्मरन्ध्रान्तं चन्द्रकुण्डलिनीं शिवे । चन्द्रकोटिसमप्रख्यां (भ्र?स्र)वदमृतविग्रहाम् ॥ ८२ ॥ बीजत्रयमयीं बिन्दौ तुर्यां बिन्दुत्रयात्मिकाम् । देशकालानवच्छिन्नां सर्वतेजोमयीं स्मरेत् ॥ ८३ ॥ तुर्यकुण्डलिनीं तद्वत्केवलं ज्ञानविग्रहाम् । एवं ध्यात्वा पुनर्विद्यां संपूर्णां मनसा स्मरेत् ॥ ८४ ॥ चिदानन्दमयीं स्वच्छामेकात्मकतया प्रिये । सुधावृष्ट्याभिपतन्त्या तर्पयेत् परदेवताम् ॥ ८५ ॥ ध्यात्वा ध्यात्वा पुनर्ध्यात्वा सहजानन्दविग्रहाम् । बिन्दु(श्रु?स्रु)तसुधाभिस्तुं तर्पयेच्च पुनः पुनः ॥ ८६ ॥ अन्तर्याग इति प्रोक्तो जीवतो मुक्तिदायकः । १ 'रीया' क पाठ । २ 'द्भिस्तु' ख पाठ ।