भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 199, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 199

११८ गन्धर्वतन्त्रे । स्वर्णपात्रे जलं कृत्वा दद्यादाचमनं मुखे । मधुपर्कं ततो दद्यात् पुनराचमनं ततः ॥ १० ॥ स्ववामे मण्डलं कृत्वा पर्यङ्कं परिभावयेत् । श्रीरत्नपादुके दत्त्वा नीत्वा तां स्नानमन्दिरे ॥ ११ ॥ भद्रासनोपविष्टाया उद्वर्तनं समाचरेत् । घृतेनोद्वर्तनं कृत्वा मनसा परिभावयेत् ॥ १२ ॥ कर्पूरागुरुकस्तूर्या¹ तथा मृगमदेन च । रोचनाकुङ्कुमैर्मिश्रैर्नानागन्धसमन्वितैः ॥ १३ ॥ सुगन्धिदिव्यतैलैश्च स्नापयेत् परमेश्वरीम् । देवकन्यासहस्रैस्तु स्वर्णकुम्भसहस्रकैः ॥ १४ ॥ नदीभिर्नदराजैश्च अप्सरोगणपन्नगैः । सिञ्चता वारिणा स्नातां चिन्तयेत् परदेवताम् ॥ १५ ॥ दुकूलैर्मार्जितं गात्रं दुकूले परि(धेतथा?धाप्य च) । कंकतीकेशसंस्कारो विधिवद्बन्धनं तथा ॥ १६ ॥ सूत्रावलीं² केशपाशे सिन्दूरं केशमध्यमे । ललाटे तिलकं दद्यादलक्तं रदनच्छदे ॥ १७ ॥ नेत्रेषु ह्यञ्जनं³ कृत्वा गन्धैर्गात्रानुलेपनम् । काञ्चनाञ्चितकञ्चुलीशोभनं हृदयोपरि ॥ १८ ॥ विभूषणं ततो दद्यात् सुवर्णरजतादिना । शिरःकर्णग्रीवादोषसूज्ज्वैलाभरणानि⁴ च ॥ १९ ॥ नूपुरौ च ततो दद्यान्मुकहारं समुज्ज्वलम् । १ 'स्तर्या' क पाठ । २ ली०' क पाठ । ३ 'रञ्जन' क पाठ । ४ 'दीतिउज्ज्व' क पाठः । ५ 'नूपुरौ ततो दद्यादानन्दहार' क पाठ ।

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक) · पृष्ठ 199, कुल 446 में से · BharatKosha