गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 200, कुल 446 में से
संदर्भ में पढ़ेंद्वादशः पटलः । ११६ अन्यदाभरणं चैव यत्र येन विराजते ॥ २० ॥ श्रीरत्नपादुके दत्त्वा चक्रमध्ये समानयेत् । गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ॥ २१ ॥ हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् । कपिलाघृतसंयुक्तं नानाव्यञ्जनसंयुतम् ॥ २२ ॥ भक्ष्यं भोज्यं तथा लेह्यं पेयं चोष्यं तथैव च । क्षीरपानीयसंयुक्तं दधिमधुसमन्वितम् ॥ २३ ॥ सकर्पूरं च ताम्बूलं मानसं परिकल्पयेत् । मनसापि महादेव्यै नैवेद्यं दीयते यदि ॥ २४ ॥ यो नरो भक्तिसंयुक्तः स दीर्घायुः सुखी भवेत् । माल्यं पद्मसहस्रस्य मनसा यः प्रयच्छति ॥ २५ ॥ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । स्थित्वा तव पुरे श्रीमान् सार्वभौमो भवेत् क्षितौ ॥ २६ ॥ मनसा तु महादेव्यै यः कुर्याच्च प्रदक्षिणम् । स दक्षिणां यमगृहं नरकान्नैव पश्यति ॥ २७ ॥ नमनं मानसं देव्या यो भक्त्या कुरुते नरः । सोऽपि लोकान्विजित्यैव नरलोके महीयते ॥ २८ ॥ महामायां महादेवीं समर्पयामि शक्तितः । नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः ॥ २९ ॥ नैवेद्यं देहि नितरामिति यो भाषते मुहुः । सोऽपि लोकान् विभिद्यैव देवीलोके महीयते ॥ ३० ॥ १ 'पुन श्रीर' क पाठ. । २ 'द्ययं' क पाठ. । ३ 'नि न' क पाठ ।