भारतकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

द्वादशः पटलः । ११६ अन्यदाभरणं चैव यत्र येन विराजते ॥ २० ॥ श्रीरत्नपादुके दत्त्वा चक्रमध्ये समानयेत् । गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ॥ २१ ॥ हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् । कपिलाघृतसंयुक्तं नानाव्यञ्जनसंयुतम् ॥ २२ ॥ भक्ष्यं भोज्यं तथा लेह्यं पेयं चोष्यं तथैव च । क्षीरपानीयसंयुक्तं दधिमधुसमन्वितम् ॥ २३ ॥ सकर्पूरं च ताम्बूलं मानसं परिकल्पयेत् । मनसापि महादेव्यै नैवेद्यं दीयते यदि ॥ २४ ॥ यो नरो भक्तिसंयुक्तः स दीर्घायुः सुखी भवेत् । माल्यं पद्मसहस्रस्य मनसा यः प्रयच्छति ॥ २५ ॥ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । स्थित्वा तव पुरे श्रीमान् सार्वभौमो भवेत् क्षितौ ॥ २६ ॥ मनसा तु महादेव्यै यः कुर्याच्च प्रदक्षिणम् । स दक्षिणां यमगृहं नरकान्नैव पश्यति ॥ २७ ॥ नमनं मानसं देव्या यो भक्त्या कुरुते नरः । सोऽपि लोकान्विजित्यैव नरलोके महीयते ॥ २८ ॥ महामायां महादेवीं समर्पयामि शक्तितः । नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः ॥ २९ ॥ नैवेद्यं देहि नितरामिति यो भाषते मुहुः । सोऽपि लोकान् विभिद्यैव देवीलोके महीयते ॥ ३० ॥ १ 'पुन श्रीर' क पाठ. । २ 'द्ययं' क पाठ. । ३ 'नि न' क पाठ ।

१२० गन्धर्वतन्त्रे । बहिर्ध्वचक्रपूजां च मनसैव समाचरेत् । नवावरणशक्तीनां पूजनं मनसैव हि ॥ ३१ ॥ इत्थमन्तः समाराध्य मनसैव जपेन्मनुम् । तदा भवति सिद्धीशो देववद्विहरेत् क्षितौ ॥ ३२ ॥ एवमेव महेशानि पूजयामि महेश्वरीम् । योगिनो मुनयश्चैव पूजयन्ति सदा प्रिये ॥ ३३ ॥ केवलं मानसेनेव नैव सिद्धो भवेद्गृही । सबाह्येन तु तेनैव गृहस्थो मुनिपुङ्गवः ॥ ३४ ॥ पार्वत्युवाच ध्यानयोगं महादेव श्रोतुमिच्छामि हे प्रभो । संपूर्णां कथयेशान येन सिद्धो भवेत् परैः ॥ ३५ ॥ ईश्वर उवाच विना न्यासैर्विना पूजां विना जप्यैपुरस्क्रियाम् । ध्यानयोगाद्भवेत् सिद्धो नान्यथा खलु पार्वति ॥ ३६ ॥ ध्यानयोगादहं सिद्धो विष्णुश्चापि पितामहः । ध्यानयोगात् परं सिद्धौ मानवा अपि पापिनः ॥ ३७ ॥ सर्वतन्त्रेषु यद्गुह्यं सर्वसिद्धिप्रदायकम् । विना येन न सिध्यन्ति वर्षकोटिशतैरपि ॥ ३८ ॥ ध्यानयोगं प्रवक्ष्यामि सर्वतत्त्वप्रदायकम् । एकान्ते विजने रम्ये कृतासनपरिग्रहः ॥ ३६ ॥ निवृत्ताखिलचिद्वृत्तिर्मुद्रामुद्रितविग्रहः । कारणानन्दसंदोहैर्बहिरन्तःप्रपूरितः ॥ ४० ॥ १ 'नर' क. पाठ. । २ 'य्ये.' क पाठः । ३ 'द्धो' क पाठः ।

द्वादशः पटलः । १२१ गुरून् नत्वा विधानेन सोऽहमित्युपरोधतः । ऐक्यं संभावयेद्धीमाञ्जीवस्य ब्रह्मणोऽपि च ॥ ४१ ॥ कारणे सर्वभूतानां तत्त्वान्यपि च चिन्तयेत् । बीजभावेन लीनानि व्युत्क्रमात् परमात्मनि ॥ ४२ ॥ एवं विचिन्त्य देवेशि पार्थिवांशं जले गतम् । जलं तेजसि लीनं च तेजो वायौ विचिन्तयेत् ॥ ४३ ॥ आकाशे संहृतं वायुं खं च मनसि लीयते । मनोऽहंकारवशगं तथाहं महति स्थितम् ॥ ४४ ॥ महान्तं प्रकृतौ लीनं चिन्तयेत् परमेश्वरि । मुमुक्षुश्चिन्तयेल्लीनां प्रकृतिं परमात्मनि ॥ ४५ ॥ नाहो न रात्रिर्न संध्या न सूर्यो नैव चन्द्रमाः । इदं तमोमयं सर्वमासीद्भुवनवर्जितम् ॥ ४६ ॥ अप्रज्ञातमलक्ष्यं च प्रसुप्तमिव सर्वतः । चिन्तयित्वा महेशानि न किंचिदपि भावयेत् ॥ ४७ ॥ एकमासीत् परं ब्रह्म नित्यं सूक्ष्ममतीन्द्रियम् । नित्यानन्दमयं धाम तेजोरूपं सनातनम् ॥ ४८ ॥ तदेव प्रकृतिः सा तु तेजोरूपा सनातनी । नित्यानन्दवपुर्देवी तद्रूपा तत्प्रकाशिनी ॥ ४९ ॥ तयोर्योगार्दभूद्वृष्टिः परमामृतरूपिणी । परिपूर्णमिदं देवि समस्तं प्लावयेत् तथा ॥ ५० ॥


१ ‘तिप’ क पाठ । २ ‘जलं च तेजसो रूपं तेजोरूपं विचिन्तयेत् । निर्वाणवायुना वह्नि वायुनात्र विचिन्तयेत् ॥’ इति क पाठः । ३ ‘तथा वै मनसि’ क पाठ ।

१२८ गन्धर्वतन्त्रे । तत्राम्भसि स्वमात्मानं चिन्तयेत् साधकोत्तमः । बुद्बुदं चिन्तयेत्तत्र प्रकृतिं चिन्तयेत् पराम् ॥ ५१ ॥ प्रकृतिर्हि महान्तं वै अहं च महतस्तथा । अहङ्कारान्मनश्चैव मनसः खं समुत्थितम् ॥ ५२ ॥ आकाशाद्वायुमुत्कृष्य वायोस्तेजः समुत्थितम् । तेजसो जलमासाद्य जलाच्च पृथिवीं स्मरेत् ॥ ५३ ॥ बहिष्कृत्य यथास्थानं निवेश्य विधिना ततः । हैमं ब्रह्माण्डमेभिः स्याद् भूबीजेन दृढं स्मरेत् ॥ ५४ ॥ प्रणवेन द्विधा कृत्वा जलौघैः परिपूरयेत् । ब्रह्माण्डाभ्यन्तरे तोयं तदधो भेकमव्ययम् ॥ ५५ ॥ तस्य पृष्ठे महादेवि कालाग्निरुद्ररूपकम् । आधारशक्तिं तत्रैव मूलप्रकृतिरूपिणीम् ॥ ५६ ॥ ब्रह्मशिलांसमारूढां कूर्माकारां शशिप्रभाम् । पद्मद्वयधरां देवीं मूर्धनि कूर्मधारिणीम्^२ ॥ ५७ ॥ नीलाभं चिन्तयेत् कूर्ममनन्तं कुन्दसंनिभम् । तस्य मूर्ध्नि स्थितं देवि श्वेतं वाराहरूपकम् ॥ ५८ ॥ तमालशामलां दन्ते धारयन्तं वसुन्धराम्^१ । तां च संचिन्तयेत्तत्र नीलेन्दीवरधारिणीम् ॥ ५९ ॥ चिन्तयेत् सलिलैः पूर्णां चतुःसागरमेखलाम् । तन्मध्ये चिन्तयेद्देवि सुधासागरमद्भुतम् ॥ ६० ॥ रक्ताभममृतं तत्र शुद्धलाक्षारसोपमम् । १ 'माकृ ख पाठ । २ 'कूर्मे च मूर्ध्नि धारिणीम्' क पाठ ।

द्वादशः पटलः । १२३ तन्मध्ये चिन्तयेद्देवि द्वीपं विद्रुमसंनिभम् ॥ ६१ ॥ गिरिराजशताकीर्णं परितश्चुवनं महत् । गिरौ स्वर्णगिरिं चैव कल्पोद्यानं गिरेस्तटे ॥ ६२ ॥ चम्पकाशोकपुन्नागपाटलैः कुटजैस्तथा । लवङ्गमाधवीबिल्व-देवदारुनमेरुभिः ॥ ६३ ॥ मन्दारपारिजाताद्यैः कल्पवृक्षैः सुपुष्पितैः । सर्वतोऽलंकृतं दिव्यैर्नित्यपुष्पफलद्रुमैः ॥ ६४ ॥ चन्दनैः कर्णिकारैश्च मातुलुङ्गैः करञ्जकैः । द्राक्षेक्षुरम्भाजम्बूभिर्मधुकैराम्रकैरपि ॥ ६५ ॥ दाडिमीचूतपनसैः पूगैः कर्पूरकैरपि । कदलीकुन्दखर्जूरनारिकेलैरलंकृतम् ॥ ६६ ॥ कदम्बैः करवीरैश्च तगरैर्नागकेसरैः । १सै२वन्तीस्वर्ण३यूथीभिर्वज्रैर्दमनकैरपि ॥ ६७ ॥ मालतीमल्लिकाजातीकेतकीशतपत्रकैः । अन्यैः सुगन्धिपुष्पाद्यैः शोभितं यूथिकादिभिः ॥ ६८ ॥ अन्योन्यासक्तवल्लीभिर्वृक्षखण्डैश्च मण्डितम् । सर्वर्तुकुसुमोपेतैर्नमद्भिरुपशोभितम् ॥ ६९ ॥ मन्दमारुतसंभिन्नकुसुमामोददिङ्मुखम् । उत्फुल्लकुसुमामोदप्रहृष्यद्भृङ्गसंकुलम् ॥ ७० ॥ कूजत्कोकिलसंघेन४ वाचालितदिगन्तरम् । कालमेघसमालोकन्नृत्यद्बर्हिकदम्बकम् ॥ ७१ ॥ १ 'ऐश पाठ । २ 'पा' ख पाठ । ३ 'थि' क पाठ । ४ 'हेन' क. पाठ ।

१२४ गन्धर्वतन्त्रे । शारिकाशुकबहुलैः कूजत्कलरवैर्युतम् । द्वन्द्वभावं प्रकुर्वद्भिर्मृगैर्नानाविधैरपि ॥ ७२ ॥ सरित्सरोभिरच्छोदैः शोभितं कुमुदोत्पलैः । तेषु सरःसु विपुलं महारसरसामृतम् ॥ ७३ ॥ सर्वतोऽलंकृतं दिव्यं लसत्काञ्चनपङ्कजम् । मत्तषट्पदनि(र्य्य?र्जु)ष्टं शकुन्तैश्च कलस्वनैः ॥ ७४ ॥ हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि । तन्महासरःपुलिने रत्नसोपानमण्डिते ॥ ७५ ॥ महारसरसान्दोलवीचिविक्षेपशीतले । सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम् ॥ ७६ ॥ मौक्तिकैः कुसुमैः स्रग्भिर्दु कूलैः स्वर्णतोरणैः । स्मरेत् कल्पतरुं तत्र तदधो रत्नभूमिकाम् ॥ ७७ ॥ विस्तीर्णां सुमनोध्यासां तन्मध्ये रत्नमण्डपम् । परितः पारिजाताढ्यं भास्वरं शशिशीतलम् ॥ ७८ ॥ उदयदित्यसंकाशं रत्नसोपानमण्डितम् । शतयोजनविस्तीर्णं चतुर्द्वारसमन्वितम् । ७६ ॥ द्वार्षु विद्रुमदेहल्याभातं वज्रकवाटकम् । रत्नसंक्लृप्तसंशोभिकवाटाष्टकसंयुक्तम् ॥ ८०॥ नानारत्नविशोभाढ्यै३रत्नप्राकारमण्डितम् । नवरत्नसमाक्लृप्ततुङ्गप्राकारतोरणम् ॥ ८१ ॥ तत्रतत्र विनिःक्षिप्तनानारत्नोपशोभितम् ।


१ 'श' क पाठ । २ 'महद्रया' क पाठ । ३ 'ड्य' क पाठ ।

द्वादशः पटलः । १२५ महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ॥ ८२ ॥ शिखरेष्विन्द्रनीलेषु हेमकुम्भैरलंकृतम् । चक्षुष्मत्पद्मरागाग्रैर्वज्रभित्तिषु निर्गतैः ॥ ८३ ॥ जुष्टं¹ विचित्रवैतानैर्महा[र्घ्यै?र्घै]र्हेमतोरणैः । सर्वर्द्धयुपचयैरर्कमणिस्तम्भैर्विराजितम् ॥ ८४ ॥ हेमदण्डशिखालम्बिध्वजावलिपरिष्कृतम्³ । स्वस्वस्थान(स्थि?कृ)तावस्थैर्लोकपालैरधिष्ठितम् ॥ ८५ ॥ सिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः । किन्नरैरप्सरोभिश्च क्रीडद्भि[र्दु?र्यु²]ष्टदिङ्मुखम् ॥ ८६ ॥ नृत्यसंगीतनिरतैरमरस्त्रीगणैर्युतम् । नवरत्नसमाबद्धस्तम्भराजिविराजितम् ॥ ८७ ॥ तप्तहाटकसंक्लृप्तवातायनमनोहरम् । नानारत्नांशुकोद्वद्धसुवर्णशतकोटिभिः ॥ ८८ ॥ किंकि(नी?णी)मणिसंनद्धपताकाभिरलंकृतम् । महामाणिक्यवैदूर्यरत्नचामरभूषितम् ॥ ८६ ॥ जातरूपमयै रत्नैश्चित्रितैरतिविस्तृतैः । माणिक्यरत्नवैदूर्यस्वर्णमालावलीयुतैः ॥ ६० ॥ अन्तरान्तरसंबद्धरत्नैर्दृष्टिमनोहरैः । विचित्रितैश्चित्रवर्णैर्वितानैरुपशोभिनम् ॥ ६१ ॥ स्थूलमुक्ताफलोद्दामलम्बमानैरलंकृतम् । उपर्युपरि विन्यस्तनिलयेषु पृथक् पृथक् ॥ ६२ ॥

१ 'युष्ट' क पाठ । २ 'यु' क पाठ । ३ 'स्कृतम्' क पाठ ।

१२६ गन्धर्वतन्त्रे । क्लृप्तैः कशि(म्बु?पु)भिः कान्तं पर्यङ्कव्यजनासनैः । दिव्योपकरणोपेतं सर्वकालसुखावहम् ॥ ६३ ॥ दुकूलक्षौमकौ(षे?शे)यैर्नानावर्णैर्विराजितम् । स्रग्भिर्विचित्रपुष्पाभिर्मञ्जुशिञ्जे^१त्षडङ्घ्रिभिः ॥ ६४ ॥ चन्दनागुरुकर्पूरमृगनाभिविलेपितम् । चन्दनागुरुकर्पूरधूपितं^२ सुमनोहरम् ॥ ६५ ॥ नानाकुसुमसौरभ्यवाहिगन्धवहान्वितम् । नन्दनोद्यानमध्यस्थमधः कल्पतरोरपि ॥ ६६ ॥ एवं संचिन्त्य मनसा मण्डपं सुमनोहरम् । तन्मध्ये स्फुरितं ध्यायेन्महामाणिक्यमण्डपम् ॥ ६७ ॥ शरच्चन्द्रनिभच्छत्रं मुक्तामाणिक्यमण्डितम् । हेमदण्डशिखालम्बिश्वेतचामरभूषितम् ॥ ६८ ॥ तदधःस्थां स्मरेद्रक्तां महामाणिक्यवेदिकाम् । उद्यदर्केन्दुकिरणां चतुरस्रोपशोभितम् ॥ ६६ ॥ वेदिकां वेदिकास्थाने सिंहासनं ततोपरि^३ । तस्याग्नेयादिकोणेषु धर्मादिकांस्तु संस्मरेत् ॥ १०० ॥ दिग्वधर्मादिकांस्तत्र चिन्तयेद्गात्ररूपिणः । रक्तश्यामहरिद्रेन्द्रनीलाभान् पादरूपिणः ॥ १०१ ॥ वृषके(शविभृ?सरिभृ) तेभरूपान् धर्मादिकान् स्मरेत् । प्रसूनतूलिकां तत्र सिंहासनस्य मध्यमे ॥ १०२ ॥ तन्मध्ये परमं ध्यायेत् सर्वतत्त्वात्मकाम्बुजम् । १ 'ञ्ष' क पाठ । २ 'प्रधूपितम' क पाठ । ३ ऐश पाठ ।

द्वादशः पटलः । १२७ आनन्दकन्दमेवात्र संविन्नालं तथैव च ॥ १०३ ॥ प्रकृतिविकाररूपद्वात्रिंशत्पत्रकेसरम् । पञ्चाशद्वर्णबीजाढ्यकर्णिकापरिमण्डितम् ॥ १०४ ॥ कर्णिकायां स्मरेत् सूर्य तन्मध्ये सोममण्डलम् । [सोममण्डलमध्ये तु संस्मरेद्वह्निमण्डलम्] ॥ १०५ ॥ वह्निमण्डलमध्ये तु सत्त्वं च परिचिन्तयेत् । रजश्च तत्र संचिन्त्य तमोऽपि च तन्मध्यतः ॥ १०६ ॥ ज्ञानतत्त्वात्मनश्चैव मायातत्त्वात्मनस्तथा । विद्यातत्त्वात्मनो देवि कलातत्त्वात्मनो यजेत् ॥ १०७ ॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते पञ्च महाप्रेताश्चतुर्दिक्ष्वध्यसंस्थिताः ॥ १०८ ॥ सदाशिवोपरिगतं त्रिशृङ्गज्योतिरव्ययम् । तस्य मध्ये महापद्मं पीयूषपरिपूरितम् ॥ १०६ ॥ सुधार्णवासने तत्र त्रिपुरां प्रकटेश्वरीम् । पोताम्बुजासने तद्वच्चिन्तयेत् त्रिपुरेश्वरीम् ॥ ११० ॥ चिन्तयेत् साधको भक्त्या गुप्तयोगिन्यधीश्र्वरीम् । आत्मासनगतां तत्र स्मरेत् त्रिपुरसुन्दरीम् ॥ १११ ॥ गुप्ततरेश्वरीं देवीं, चक्रासने विचिन्तयेत् । त्रिपुरवासिनीं देवीं संप्रदायगणेश्वरीम् ॥ ११२ ॥ सर्वमन्त्रासने देवि चिन्तयेत् त्रिपुराश्रियम् । कुलकौलेश्वरीं देवीं, साध्यासनगतां ततः ॥ ११३ ॥


१ 'राश्रि' ख पाठ ।

१२८ गन्धर्वतन्त्रे । त्रिपुरमालिनीं प्राज्ञे निगर्भयोगिनीश्वरीम् । सिंहासने ततः पश्चात् सिद्धां त्रिपुरपूर्विकाम् ॥ ११४ ॥ पर्यङ्कशक्तिपीठे तु त्रिपुरामबां विचिन्तयेत् । कामेश्वराङ्कपर्येङ्कंसमासीनां परां कलाम् ॥ ११५॥ रक्तपद्मनिभां देवीं बालार्ककिरणारुणाम् । जपाकुसुमसंकाशां दाडिमीकुसुमप्रभाम् ॥ ११६ ॥ पद्मरागप्रतीकाशां कुङ्कुमोदकसंनिभाम् । स्फुरन्मुकुटमाणिक्यकिङ्किणीजालमण्डिताम् ॥ ११७ ॥ कालालिकुलसंकाशकुटिलालकपल्लवाम् । प्रत्यग्रारुणसंकाशवदनाम्भोजमण्डलाम् ॥ ११८ ॥ किंचिदर्थेन्दुकुटिलललाटमृदुपट्टिकाम् । पिनाकधनुराकारसुभ्रुवं परमेश्वरीम् ॥ ११९ ॥ आनन्दमुदितोल्लोललीलान्दोलितैलोचनाम् । स्फुरन्मयूखसंघातविलसद्धेमकुण्डलाम् ॥ १२० ॥ सुँगण्डमण्डलाभोगजितेन्द्वमृतमण्डलाम् । विश्वकर्मविनिर्माणसूत्रसुँस्पष्टनासिकाम् ॥ १२१ ॥ ताम्रविद्रुमबिम्बाभरक्तोष्ठीममृतोपमाम् । दाडिमीबीजवज्राभदन्तपङ्क्तिविराजिताम् ॥ १२२ ॥ रत्नदीपसमुल्लासिजिह्वां मधुरभाषिणीम् १ 'मोपमाम्' क पाठ । २ 'श्रुलता' क पाठः । ३ 'लङ्घित' ख पाठ । ४ 'ललित' क. पाठः । ५ 'न्दुसुतलोचनाम्' क पाठ. । ६ 'दिनि' क पाठः । ७ 'वि' ख पाठ. । ८ 'रक्त' ख. पाठ । ९ 'न्तर्बिम्बोष्ठी ' क पाठः । १० 'सुशोभिताम् ' क पाठ. । ११ 'स्फुरद्भापजिह्ववामूलविराजिताम्' ख पाठ. । इद पद्यार्ध क पाठे नास्ति ।

द्वादशः पटलः । १२६ स्मितमाधुर्यविजितमाधुर्यरससागराम् ॥ १२३ ॥ अनौपम्यगुणोपेतचिबुकोद्देशशोभिताम् । कम्बुग्रीवां महादेवीं मृणालललितैर्भुजैः ॥ १२४ ॥ मणिकङ्कणकेयूरभारखिन्नैः प्रशोभिताम्¹ । रक्तोत्पलदलाकारसुकुमारकराम्बुजाम् ॥ १२५ ॥ कराम्बुजनखज्योत्स्ना²विराजितनभःस्थलाम्³ । मुक्ताहारलतोपेतपीनोन्नत⁴पयोधराम् ❊ । त्रिवलीवलनायुक्तमध्यदेशसुशोभिताम् ॥ १२६ ॥ लावण्यसरिदावर्त्ताकारनाभिविभूषिताम्⁵ । अनर्घ्यरत्न⁶घटितकाञ्चीयुक्तनितम्बिनीम् ॥ १२७ ॥ नितम्बबिम्बद्विरदरोमराजीवराङ्कुशाम् । कद्ली⁷ललितस्तम्भसुकुमारोरुमिश्ररीम् ॥ १२८ ॥ लावण्यकन्दलीतुल्यजङ्घायुगलमण्डिताम् । गूढगुल्फपदद्वन्द्वप्रपदाजितकच्छपाम् ॥ १२६ ॥ नूपुरैर्विलसत्पादपङ्कजातिमनोहराम् । ब्रह्मविष्णुशिरोरत्ननिघृष्टचरणाम्बुजाम् ॥ १३० ॥ तनुदीर्घाङ्गुलीभास्वन्नखचन्द्रविराजिताम् । शीतांशुशतसंकाशकान्तिसंतानहासिनीम् ॥ १३१ ॥ लौहित्यजितसिन्दूरजपादाडिमरागिणीम् । रक्तवस्त्रपरीधानां रक्ताभरणभूषिताम् १३२

१ 'भूषणै परिशोभिताम्' क पाठः । २ 'तिर्विं' ख पाठः । ३ 'तीम्' क पाठः । ४ 'समुन्न' क पाठः । ५ 'सुशोभिताम्' क. पाठः । ६ 'र्घ्यं' क. पाठः । ७ 'कदली' ख पाठः ।

  • पीनोन्नतस्तनकुचा तनुमध्येन शोभितामित्यधिकः पाठः ख ।

१३० गन्धर्वतन्त्र । इच्छाशक्तिमयं पाशमङ्कुशं ज्ञानरूपिणीम् । क्रियाशक्तिमये बाणधनुषी दधतीं पराम् ॥ १३३ ॥ कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् । महामृगमदोद्दामकुङ्कुमारुणविग्रहाम् ॥ १३४ ॥ सर्वशृङ्गारवेशाढ्यां सर्वालंकारभूषिताम् । जगदाह्लादजननीं जगद्रञ्जनकारिणीम् ॥ १३५ ॥ जगदाकर्षणकरीं जगत्कारणरूपिणीम् । सर्वदेवमयीं देवीं सर्वमन्त्रमयीं पराम्३ ॥ १३६ ॥ सर्वलक्ष्मीमयीं साक्षात्परमानन्दरूपिणीम्४ । निर्लेपं निर्गुणं शुद्धमात्मानं त्रिपुरामयम् ॥ १३७ ॥ आत्माभेदेन संचिन्त्य याति तन्मयतां नरः । साहमित्यस्य सततं चिन्तनात्तन्मयो भवेत् ॥ १३८ ॥ तामेव चिन्तयेद्देवि नान्यत् किंचित्तया विना । तत्तेजोभिरिदं सर्वं परिपूर्णं विभावयेत् ॥ १३६ ॥ एवं भावनयाविष्टो६ देववद्विहरेत् क्षितौ । ध्यानयोगपरस्यास्य पूज्यो नास्तीह कश्चन ॥ १४० ॥ स एव सुकृती लोके स पूज्यो नतु पूजकः७ । योगात्मा योगविज्ज्ञानी स देवो नतु मानुषः ॥ १४१ ॥ संन्यासी स च विन्यासी युक्तात्मा स मुनिर्मतः । नासाध्यं वर्तते तस्य स सिद्धो योगिपुङ्गवः ॥ १४२ ॥ इन्द्रियप्रीणनैर्द्रव्यैस्तोषयेद् भूषयेत् सदा । १ 'स्थापन' ख पाठः । २ 'मन्त्र' क. पाठः । ३ 'सौभाग्यसुन्दरीम्' ख. पाठः । ४ 'नित्या' ख. पाठः । ५ 'सुन्दरीम्' ख. पाठ । ६ 'सो' ख पाठः । ७ 'दृष्टो' ख. पाठः ।

द्वादशः पटलः । १३१ आत्मानमेव सततं पूजयेद् देवताधिया ॥ १४३ ॥ देववद्विहरेन्नित्यं कालयोगपरायणः । यत् पश्यति यच्छृणोति गीतनृत्यादिकं च यत् ॥ १४४ ॥ परिदधाति यत्किंचित् स्वयं यदनुलिम्पति । हस्त्यश्वरथखट्वादि यदारोहति साधकः ॥ १४५ ॥ यत् करोति यदश्नाति तत् सर्वं देवताधिया । विषयान् विषयी भुङ्क्ते यानेव स्वमनोरथान् ॥ १४६ ॥ तत्तत् समग्रमासाद्य तत्सर्वं देवताधिया । जाग्रदादि सुषुप्त्यन्तं सर्वं तद्देवताधिया ॥ १४७ ॥ दिव्य एव भवेत्तत्र न चैवान्यः कदाचन । तस्माद् दिव्यपरो यस्तु देवीमानन्दरूपिणीम् ॥ १४८ ॥ पूजयेत् सततं भक्त्या महात्रिपुरसुन्दरीम् । मोक्षार्थी लभते मोक्षं ध्यानयोगपरायणः ॥ १४६ ॥ तां तु यश्चिन्तयेद्रात्रौ भोगी ध्यानपरायणः । कामेश्वराङ्कपर्यङ्कसमासीनां परां कलाम् ॥ १५० ॥ सर्वाङ्गसुन्दरीं हृद्यां प्रसादसुमुखेक्षणाम् । सकारेणामभिध्यायेत् सर्वाङ्गेषु मनो दधत् ॥ १५१ ॥ चतुर्वर्गं करे तस्य जीवन्मुक्तः स एव हि । इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे ध्यानयोगनिरूपणं द्वादशः पटलः ॥ १२ ॥ १ 'ध्यान' क पाठ. । २ 'करुणा' ख पाठ. ।

त्रयोदशः पटलः । —o— श्रीपार्वत्युवाच बहिर्यागविधिं ब्रूहि साङ्गेन परमेश्वर । विशेषार्घस्य संस्थानं नित्या(ज?य)जनमेव च ॥ १ ॥ ईश्वर उवाच तादृशीमम्बिकां ध्यात्वा त्रिधात्मानं च तन्मयम् । तेनैव मूलमन्त्रेण शिरोदेशे तदेव हि ॥ २ ॥ स्वकीये कुसुमं दद्यादङ्गन्यासं पुनस्तथा । चैतन्यं सर्वभूतानां यद् ब्रह्म सोऽहमीश्वरः ॥ ३ ॥ सोऽहमित्यस्य सततं चिन्तनाद् देवरूपता । आत्मनो जायते सम्यग्भावनाव्नात्र संशयः ॥ ४ ॥ पूजोपकरणास्यापि देवत्वमिह जायते । सर्वेषां देवतादृष्ट्या जायते शुद्धतापि च ॥ ५ ॥ अहं देवोऽथ नैवेद्यं पुष्पगन्धादिकं च यत् । देवाधारो ह्यहं देवो न देवो मत्परः क्वचित् ॥ ६ ॥ देवमेव यजे चाहं देवदेवोऽहमेव च । यदि बाह्यार्चनैर्द्रव्यसंपत्तिरपि विद्यते ॥ ७ ॥ विशेषार्घ्यादिकं देवि तदा कुर्यादतन्द्रितः । पूजार्घ्यपात्रं नैवेद्याद्याधारपानपात्रकम् ॥ ८ ॥ सर्वं ताम्रमयं कुर्याद्यत्किंचिदिह पूजने । ताम्रे देवाः प्रमोन्दन्ते ताम्रे देवाः स्थिताः सदा ॥ ६ ॥

१ 'र्घ्यस्य' क. पाठः । २ 'ह्या' क. पाठ । ३ 'ना' क. पाठः ।

त्रयोदशः पटलः । १३३ देवीप्रीतिकरं ताम्रं तस्मात् ताम्रं प्रयोजयेत् । शङ्खशुक्तिरजतस्वर्णैर्दिव्यानां पात्रमिष्यते ॥ १०॥ महाशङ्खैस्तु वीराणां फलजं वनवासिनाम् । अष्टाङ्गुलस्य न न्यूनं नाधिकं सार्धपाङ्कितः ॥ ११ ॥ सर्वेषामेव पात्राणां मानमेवं विधीयते । पञ्चरत्नैर्महादेव्याः पञ्च पात्राणि कारयेत् ॥ १२ ॥ सामान्यं च विशेषं च पाद्यमाचमनीयकम् । कुम्भं चापि प्रयत्नेन रत्नैः कुर्याद्विभूतये ॥ १३ ॥ रत्नं गगनसंज्ञं च स्वर्गरत्नं तथैव च । मर्त्यपातालरत्ने च नागरत्नं तथैव च ॥ १४ ॥ गारुडं चैव माणिक्यं वज्रं वैदूर्यमेव च । नीलं च क्रमतो विद्यात् पञ्च रत्नानि योजयेत् ॥ १५ ॥ बीजपञ्चकमेतेषां क्रमाद्वक्ष्ये सुदुर्लभम् । गसौ च (स?प)मनाः पश्चादिन्द्रस्थाः *क्रमतः प्रिये ॥१६॥ नादबिन्दुकलायुक्ता वामकर्णविभूषिताः । तर्पणार्थं विशेषेण चक्रपूजानिवेदने ॥ १७ ॥ श्रीपात्रं साधयेद्धीमान् विधिना साधकोत्तमः । योनिमुद्रां विधायादौ कुर्यादर्घ्यस्य साधनम् ॥ १८ ॥ आत्मश्रीचक्रयोर्मध्ये चतुरस्रं तु कारयेत् । तन्मध्ये चैव षट्कोणं तन्मध्ये वृत्तमुत्तमम् ॥ १६ ॥ त्रिकोणं तत्र संलिख्य चन्दनेन वरानने । १ 'जत्स्थ' क पाठः ।

  • 'इन्द्रस्था इति लकारस्था' तेन ग्लूं स्लू प्नूं म्लू न्हूँ इति ।

१३४ गन्धर्वतन्त्रे । मण्डलं तं समभ्यर्च्य साधयेदासनं ततः ॥ २० ॥ बालाबीजत्रयं देवि ततस्त्रिपुरसुन्दरी । अर्घ्यपात्रासनं चैव साधयामीति साधयेत् ॥ २१ ॥ तथैवास्त्रेण तु तथा१ सामान्यार्घ्योदकेन तु । प्रक्षाल्य परमेशानि मण्डले स्थापयेत्ततः ॥ २२ ॥ वह्निमण्डलरूपं तं कलाभिः सह पूजयेत् । पूर्ववत् परमेशानि पात्रं प्रक्षाल्य साधकः ॥ २३ ॥ विशेषार्घ्यपदात् पात्रं प्रतिशब्दादनन्तरम् । स्थापयामीति मनुना संस्थाप्य तदनन्तरम् ॥ २४ ॥ सूर्यमण्डलरूपं तं कलाभिः सह पूजयेत् । पूजयेत्तं विधानेन बिन्दु[श्रु?स्रु]तसुधामयैः ॥ २५ ॥ मातृकां प्रतिलोमेन मूलाभिमन्त्रितामृतैः । आदिमैः पूरयेद्वापि तथा पुष्पासवैरपि ॥ २६ ॥ कपिलायास्तथा क्षीरैर्नारिकेलामृतैरपि । इक्षुरसैः सुगन्धैश्च मधुरत्रितयेन वा ॥ २७ ॥ पूरयेत् तन्महापात्रं नानाद्रव्यैः कदाचन । अधिकारिप्रभेदेन द्रव्यभेदा भवन्ति हि ॥ २२८ ॥ स्वयंभूकुसुमं तत्र कर्पूरागुरुचन्दनैः । रोचनाकुङ्कुमैर्मिश्रं कस्तूरीपरिभावितम् ॥ २६ ॥ निक्षिपेत् परमेशानि शर्करां मधुसंयुताम् । पूर्वोक्रमण्डलं तत्र संचिन्त्य साधकोत्तमः ॥ ३० ॥ १ 'युतया' इति क पाठ । २ 'काप्रति' क पाठ ।

त्रयोदशः पटलः । १३५ अङ्कुशमुद्रया पश्चात् तीर्थं वै प्रार्थयेत् ततः । ऋजुमध्यमामध्यपर्वाक्रान्ता तर्जन्यधोमुखी ॥ ३१ ॥ विज्ञेयाङ्कुशमुद्रेयं कुञ्चिता मध्यपर्वतः । सौरमण्डलतः पश्चात् तीर्थमावाहयेत् तथा ॥ ३२ ॥ गङ्गावतारमन्त्रेण सर्वैस्तीर्थगणैः सह । गङ्गापि यमुनायाति पूजापात्रजलं प्रति ॥ ३३ ॥ मीनमुद्रां विधायाथ हस्ताभ्यां पात्रमुत्तमम् । आच्छाद्य परमेशानि चिन्मयं तीर्थमागतम् ॥ ३४ ॥ अधोमुखावुभौ हस्तौ स्वस्वोपरि च संस्थितौ । पार्श्वद्वयगताङ्गुष्ठौ मीनमुद्रेयमीरिता ॥ ३५ ॥ माणिक्यं मौक्तिकं देवि विद्रुमं गारुडं तथा । पुष्परागं तथा वज्रं नीलं गोमेदकं शुभम् ॥ ३६ ॥ वैडूर्यं नवरत्नानि तत्राम्भसि नियोजयेत् । रत्नेशीं पूजयेत्तत्र सर्वपापप्रणाशिनीम् ॥ ३७ ॥ श्रीबीजं च पराबीजं तथैव बीजपञ्चकम् । पूर्वबीजे विलोमेन तत्पश्चाद्विनियोजयेत् ॥ ३८ ॥ द्रव्यदोषहरा देवी रत्नेशीयं नवाक्षरी । षडङ्गानि च षट्कोणे पूर्वोक्तानि प्रपूजयेत् ॥ ३६ ॥ तन्मध्ये च परेशानि वृत्तं पूर्णेन्दुसंनिभम् । चन्द्रमण्डलरूपं तममृतं परिचिन्तयेत् ॥ ४० ॥ कलाभिस्तं प्रपूज्याथ चिन्तयेन्मध्यमण्डलम् । १ 'तु' ख. पाठः । २ 'परमेशानि' ग्व पाठः ।

१३६ गन्धर्वतन्त्रे । अकथादितिरेखाढ्यं हेद्वाभ्यन्तरमध्यगम् ॥ ४१ ॥ तदग्रे कामरूप च जालन्धरं च वामतः । दक्षे पूर्णगिरिं चैव मध्ये चैवोड्डियानकम् ॥ ४२ ॥ तत्र तत्र यजेद् देवीं चतुर्व्यूहस्वरूपिणीम् । सूर्यकोटिप्रतीकाशं चन्द्रकोट्ययुतप्रभम् ॥ ४३ ॥ तथा दशभुजं देवं पञ्चवक्त्रं त्रिलोचनम् । खड्गखट्वाङ्गे¹पट्टिशमुद्गरं शूलकुन्तकम्³ ॥ ४४ ॥ बिभ्रतं खेटकं² शक्तिं वरदाभयपाणि(न?क)म् । तस्योत्सङ्गे (स्वधां?सुरां)देवीं चन्द्रकोट्ययुतप्रभाम् । ४५॥ हिमकुन्देन्दुधवलां पूर्वायुधकरोद्यताम् । प्रहसन्तीं विशालाक्षीं देवदेवस्य संमुखीम्⁴ ॥ ४६ ॥ एवं ध्यात्वा समावाह्य कुलाकुलमयीं विभुः । अमृतीकरणं कुर्यान्मुद्रया धेनुसंज्ञया ॥ ४७ ॥ अवगुण्ठ्य ततो मन्त्री नीरजायतलोचने । सकलीकरणं कुर्यात् षडङ्गेन च पूर्ववत् ॥ ४८ ॥ परमीकरणं कुर्यान्महामुद्रिकया ततः । मु(ष?स)लमुद्रिकां योनिं गालिनीं च प्रदर्शयेत् ॥ ४६ ॥ वाममुष्ट्यन्तरेऽङ्गुष्ठे दक्षिणे स(वशा?रला)ङ्गुलीः । वामाङ्गुष्ठं स्पृशेदग्रे योजिना दक्षिणादधः (?) ॥ ५० ॥ मुष्टी कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणम् । कुर्यान्मु(ष?स)लमुद्रेयं सर्वविघ्नविनाशिनी ॥ ५१ ॥ १ 'इङ्गा' क पाठ । २ 'खेटक' क पाठ. । ३ 'दन्तकम्' क पाठ. । ४ 'खे' क पाठ ।

त्रयोदशः पटलः । १३७ कनिष्ठाङ्गुष्ठकौ भुग्नौ करयोरितरेतरम् । तर्जनीमध्यमानामाः संहता भुग्नवर्जिताः ॥ ५२॥ मुद्रेयं गालिनी प्रोक्ता परमामृतदायिनी । *शिवचन्द्रौ मातृकान्तं कालशक्रा(द्यु?म्बु)वह्वयः ॥ ५३ ॥ वायुश्च वामकर्णेन योजिता बिन्दुनादिनः । बीजमेतत् समुच्चार्य तथा चानन्दभैरवम् ॥ ५४ ॥ ङेन्तं शिखामन्त्रयुतं पुनर्बीजानि संलिखेत् । § चन्द्रं हित्वाँदि (न?तः)कुर्यात्कर्णो वामाक्षि योजयेत् ॥५५॥ (स्वधा?सुरा)देव्यै ततो वौषट् इयमानन्दभैरवी । अनेन तौ तु संयोज्य परमानन्दनन्दितौ ॥ ५६ ॥ तदामृते तयोर्योगादमृतं क्षरतेऽचिरम् । तयोः पञ्चोपचारेषु ऋचः पञ्च नियोजयेत् ॥ ५७ ॥ प्रथमं¹प्रकृतेर्हंसः प्र तद्विष्णुरनन्तरम् । त्रैयम्बकस्तृतीयः स्याच्चतुर्थस्तत्पदादिकः ॥ ५८ ॥ विष्णुर्योनिं-पदादिस्तु पञ्चमः परिकीर्तितः । दशधा प्रजपेद्विद्यां संस्पृश्यामृतमद्रिजे ॥ ५९ ॥ वाग्भवं कामबीजं च सर्गवान् मनुयुग् भृगुः । तथामृतेपदं ब्रूयात् पश्चादमृतोद्भवे तथा ॥ ६० ॥

  • १ 'शक्तौ' क पाठ । २ 'दिन' ख पाठ. । ३ 'म' क पाठ । ॐ शिवचन्द्रौ हसौ मातृकान्तं च कालो म शक्रो ल अम्बु व वह्नि र वायु य वाम- कर्ण ऊ तेन हसक्षमलवरयू आनन्दभैरवाय वौषट् । इति § उक्तमन्त्रस्यादौ सकार हित्वा वामकर्णस्थाने वामाक्षि ईमिति योज्यम् । तेन सहक्षमल- वरयी सुरादेव्यै वौषट् इति । वस्तुतस्तु हित्वेति स्थाने कृत्वेति स्पष्टः पाठो गुरुसम्प्रदायाद- नुमन्तव्य. तेन सकारमादित कृत्वेति ज्ञेय तत सहक्षमेल्यादिमन्त्र. ।

१३८ गन्धर्वतन्त्रे । अमृतेश्वरि तथेत्युक्त्वा पश्चादमृतवर्षिणि । अमृतं(श्रा?स्रा)वययुगं वह्निजायावधिर्मनुः* ॥ ६१ ॥ वाग्भवं वद्युग्मं च वाग्वादिनि चै१ वाग्भवम् । कामबीजं क्लिन्ने२ चोक्त्वा क्लेदिनि क्लेदयेति च ॥ ६२ ॥ महाक्षोभं कुरुयुगं कामबीजमतः परम् । तार्तीयं मोक्षमृत्युक्त्वा कुरुयुग्मं वदेत्ततः ६३ शक्तिबीजं पुनश्चान्ते संदीपनमनुः† प्रिये । संदीपनादिकं कृत्वा बोधिन्या बोधयेत् ततः ॥ ६४ ॥ कृताञ्जलिपुटो भूत्वा स्मरेन्मन्त्रं§ वरानने । एवं पात्रचतुष्कं च वटुकादेः पुनर्भवैत् ॥ ६५ ॥ गुरूणां च त्रयं चैकमेकमेवात्मनो भवेत् । एवं भवन्ति पात्राणि नवैव ह्युत्तमानि च ॥ ६६ ॥ पञ्चपात्रं भवेन्मध्ये मध्यमं त्वेकपात्रकम् । गुरवे गुरु(पा?पु)त्राय तत्पत्त्यै तत् समर्पयेत् ॥ ६७ ॥ (व?वी)रशक्त्यै (वरं?वीर) पात्रं निवेद्यात्मनि योजयेत् । एवमेवार्चनाद् देवि भवेदमृतमुत्तमम् ॥ ६८ ॥ कुशाग्रेण समादाय अमृतं सर्वपावनम् ।


१ 'तु' ख पाठ । २ 'क्लीन्नेत्यु' क पाठ. । * स्पष्ट यथा ऐंक्लींसौ अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृत स्रवय २ स्वाहा । † ऐ वदवद वाग्वादिनि ऐंक्ली क्लेन्ने क्लेदिनि क्लेदय महाक्षोभ कुरु२ क्लींसौ. मोक्ष कुरु २ सौ इति सदीपिनीविद्या । § 'पूर्वल्लिखित ब्रह्माण्डखण्डमश्रुतमित्यादि मयि चित्स्फुरणा कुरु इत्यन्तम्' इति पर्याय- रूपेणाधिक पाठो दृश्यते ।