गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 207, कुल 446 में से
संदर्भ में पढ़ें१२६ गन्धर्वतन्त्रे । क्लृप्तैः कशि(म्बु?पु)भिः कान्तं पर्यङ्कव्यजनासनैः । दिव्योपकरणोपेतं सर्वकालसुखावहम् ॥ ६३ ॥ दुकूलक्षौमकौ(षे?शे)यैर्नानावर्णैर्विराजितम् । स्रग्भिर्विचित्रपुष्पाभिर्मञ्जुशिञ्जे^१त्षडङ्घ्रिभिः ॥ ६४ ॥ चन्दनागुरुकर्पूरमृगनाभिविलेपितम् । चन्दनागुरुकर्पूरधूपितं^२ सुमनोहरम् ॥ ६५ ॥ नानाकुसुमसौरभ्यवाहिगन्धवहान्वितम् । नन्दनोद्यानमध्यस्थमधः कल्पतरोरपि ॥ ६६ ॥ एवं संचिन्त्य मनसा मण्डपं सुमनोहरम् । तन्मध्ये स्फुरितं ध्यायेन्महामाणिक्यमण्डपम् ॥ ६७ ॥ शरच्चन्द्रनिभच्छत्रं मुक्तामाणिक्यमण्डितम् । हेमदण्डशिखालम्बिश्वेतचामरभूषितम् ॥ ६८ ॥ तदधःस्थां स्मरेद्रक्तां महामाणिक्यवेदिकाम् । उद्यदर्केन्दुकिरणां चतुरस्रोपशोभितम् ॥ ६६ ॥ वेदिकां वेदिकास्थाने सिंहासनं ततोपरि^३ । तस्याग्नेयादिकोणेषु धर्मादिकांस्तु संस्मरेत् ॥ १०० ॥ दिग्वधर्मादिकांस्तत्र चिन्तयेद्गात्ररूपिणः । रक्तश्यामहरिद्रेन्द्रनीलाभान् पादरूपिणः ॥ १०१ ॥ वृषके(शविभृ?सरिभृ) तेभरूपान् धर्मादिकान् स्मरेत् । प्रसूनतूलिकां तत्र सिंहासनस्य मध्यमे ॥ १०२ ॥ तन्मध्ये परमं ध्यायेत् सर्वतत्त्वात्मकाम्बुजम् । १ 'ञ्ष' क पाठ । २ 'प्रधूपितम' क पाठ । ३ ऐश पाठ ।