गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 203, कुल 446 में से
संदर्भ में पढ़ें१२८ गन्धर्वतन्त्रे । तत्राम्भसि स्वमात्मानं चिन्तयेत् साधकोत्तमः । बुद्बुदं चिन्तयेत्तत्र प्रकृतिं चिन्तयेत् पराम् ॥ ५१ ॥ प्रकृतिर्हि महान्तं वै अहं च महतस्तथा । अहङ्कारान्मनश्चैव मनसः खं समुत्थितम् ॥ ५२ ॥ आकाशाद्वायुमुत्कृष्य वायोस्तेजः समुत्थितम् । तेजसो जलमासाद्य जलाच्च पृथिवीं स्मरेत् ॥ ५३ ॥ बहिष्कृत्य यथास्थानं निवेश्य विधिना ततः । हैमं ब्रह्माण्डमेभिः स्याद् भूबीजेन दृढं स्मरेत् ॥ ५४ ॥ प्रणवेन द्विधा कृत्वा जलौघैः परिपूरयेत् । ब्रह्माण्डाभ्यन्तरे तोयं तदधो भेकमव्ययम् ॥ ५५ ॥ तस्य पृष्ठे महादेवि कालाग्निरुद्ररूपकम् । आधारशक्तिं तत्रैव मूलप्रकृतिरूपिणीम् ॥ ५६ ॥ ब्रह्मशिलांसमारूढां कूर्माकारां शशिप्रभाम् । पद्मद्वयधरां देवीं मूर्धनि कूर्मधारिणीम्^२ ॥ ५७ ॥ नीलाभं चिन्तयेत् कूर्ममनन्तं कुन्दसंनिभम् । तस्य मूर्ध्नि स्थितं देवि श्वेतं वाराहरूपकम् ॥ ५८ ॥ तमालशामलां दन्ते धारयन्तं वसुन्धराम्^१ । तां च संचिन्तयेत्तत्र नीलेन्दीवरधारिणीम् ॥ ५९ ॥ चिन्तयेत् सलिलैः पूर्णां चतुःसागरमेखलाम् । तन्मध्ये चिन्तयेद्देवि सुधासागरमद्भुतम् ॥ ६० ॥ रक्ताभममृतं तत्र शुद्धलाक्षारसोपमम् । १ 'माकृ ख पाठ । २ 'कूर्मे च मूर्ध्नि धारिणीम्' क पाठ ।