भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 204, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 204

द्वादशः पटलः । १२३ तन्मध्ये चिन्तयेद्देवि द्वीपं विद्रुमसंनिभम् ॥ ६१ ॥ गिरिराजशताकीर्णं परितश्चुवनं महत् । गिरौ स्वर्णगिरिं चैव कल्पोद्यानं गिरेस्तटे ॥ ६२ ॥ चम्पकाशोकपुन्नागपाटलैः कुटजैस्तथा । लवङ्गमाधवीबिल्व-देवदारुनमेरुभिः ॥ ६३ ॥ मन्दारपारिजाताद्यैः कल्पवृक्षैः सुपुष्पितैः । सर्वतोऽलंकृतं दिव्यैर्नित्यपुष्पफलद्रुमैः ॥ ६४ ॥ चन्दनैः कर्णिकारैश्च मातुलुङ्गैः करञ्जकैः । द्राक्षेक्षुरम्भाजम्बूभिर्मधुकैराम्रकैरपि ॥ ६५ ॥ दाडिमीचूतपनसैः पूगैः कर्पूरकैरपि । कदलीकुन्दखर्जूरनारिकेलैरलंकृतम् ॥ ६६ ॥ कदम्बैः करवीरैश्च तगरैर्नागकेसरैः । १सै२वन्तीस्वर्ण३यूथीभिर्वज्रैर्दमनकैरपि ॥ ६७ ॥ मालतीमल्लिकाजातीकेतकीशतपत्रकैः । अन्यैः सुगन्धिपुष्पाद्यैः शोभितं यूथिकादिभिः ॥ ६८ ॥ अन्योन्यासक्तवल्लीभिर्वृक्षखण्डैश्च मण्डितम् । सर्वर्तुकुसुमोपेतैर्नमद्भिरुपशोभितम् ॥ ६९ ॥ मन्दमारुतसंभिन्नकुसुमामोददिङ्मुखम् । उत्फुल्लकुसुमामोदप्रहृष्यद्भृङ्गसंकुलम् ॥ ७० ॥ कूजत्कोकिलसंघेन४ वाचालितदिगन्तरम् । कालमेघसमालोकन्नृत्यद्बर्हिकदम्बकम् ॥ ७१ ॥ १ 'ऐश पाठ । २ 'पा' ख पाठ । ३ 'थि' क पाठ । ४ 'हेन' क. पाठ ।