गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 202, कुल 446 में से
संदर्भ में पढ़ेंद्वादशः पटलः । १२१ गुरून् नत्वा विधानेन सोऽहमित्युपरोधतः । ऐक्यं संभावयेद्धीमाञ्जीवस्य ब्रह्मणोऽपि च ॥ ४१ ॥ कारणे सर्वभूतानां तत्त्वान्यपि च चिन्तयेत् । बीजभावेन लीनानि व्युत्क्रमात् परमात्मनि ॥ ४२ ॥ एवं विचिन्त्य देवेशि पार्थिवांशं जले गतम् । जलं तेजसि लीनं च तेजो वायौ विचिन्तयेत् ॥ ४३ ॥ आकाशे संहृतं वायुं खं च मनसि लीयते । मनोऽहंकारवशगं तथाहं महति स्थितम् ॥ ४४ ॥ महान्तं प्रकृतौ लीनं चिन्तयेत् परमेश्वरि । मुमुक्षुश्चिन्तयेल्लीनां प्रकृतिं परमात्मनि ॥ ४५ ॥ नाहो न रात्रिर्न संध्या न सूर्यो नैव चन्द्रमाः । इदं तमोमयं सर्वमासीद्भुवनवर्जितम् ॥ ४६ ॥ अप्रज्ञातमलक्ष्यं च प्रसुप्तमिव सर्वतः । चिन्तयित्वा महेशानि न किंचिदपि भावयेत् ॥ ४७ ॥ एकमासीत् परं ब्रह्म नित्यं सूक्ष्ममतीन्द्रियम् । नित्यानन्दमयं धाम तेजोरूपं सनातनम् ॥ ४८ ॥ तदेव प्रकृतिः सा तु तेजोरूपा सनातनी । नित्यानन्दवपुर्देवी तद्रूपा तत्प्रकाशिनी ॥ ४९ ॥ तयोर्योगार्दभूद्वृष्टिः परमामृतरूपिणी । परिपूर्णमिदं देवि समस्तं प्लावयेत् तथा ॥ ५० ॥
१ ‘तिप’ क पाठ । २ ‘जलं च तेजसो रूपं तेजोरूपं विचिन्तयेत् । निर्वाणवायुना वह्नि वायुनात्र विचिन्तयेत् ॥’ इति क पाठः । ३ ‘तथा वै मनसि’ क पाठ ।