गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 219, कुल 446 में से
संदर्भ में पढ़ें१३८ गन्धर्वतन्त्रे । अमृतेश्वरि तथेत्युक्त्वा पश्चादमृतवर्षिणि । अमृतं(श्रा?स्रा)वययुगं वह्निजायावधिर्मनुः* ॥ ६१ ॥ वाग्भवं वद्युग्मं च वाग्वादिनि चै१ वाग्भवम् । कामबीजं क्लिन्ने२ चोक्त्वा क्लेदिनि क्लेदयेति च ॥ ६२ ॥ महाक्षोभं कुरुयुगं कामबीजमतः परम् । तार्तीयं मोक्षमृत्युक्त्वा कुरुयुग्मं वदेत्ततः ६३ शक्तिबीजं पुनश्चान्ते संदीपनमनुः† प्रिये । संदीपनादिकं कृत्वा बोधिन्या बोधयेत् ततः ॥ ६४ ॥ कृताञ्जलिपुटो भूत्वा स्मरेन्मन्त्रं§ वरानने । एवं पात्रचतुष्कं च वटुकादेः पुनर्भवैत् ॥ ६५ ॥ गुरूणां च त्रयं चैकमेकमेवात्मनो भवेत् । एवं भवन्ति पात्राणि नवैव ह्युत्तमानि च ॥ ६६ ॥ पञ्चपात्रं भवेन्मध्ये मध्यमं त्वेकपात्रकम् । गुरवे गुरु(पा?पु)त्राय तत्पत्त्यै तत् समर्पयेत् ॥ ६७ ॥ (व?वी)रशक्त्यै (वरं?वीर) पात्रं निवेद्यात्मनि योजयेत् । एवमेवार्चनाद् देवि भवेदमृतमुत्तमम् ॥ ६८ ॥ कुशाग्रेण समादाय अमृतं सर्वपावनम् ।
१ 'तु' ख पाठ । २ 'क्लीन्नेत्यु' क पाठ. । * स्पष्ट यथा ऐंक्लींसौ अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृत स्रवय २ स्वाहा । † ऐ वदवद वाग्वादिनि ऐंक्ली क्लेन्ने क्लेदिनि क्लेदय महाक्षोभ कुरु२ क्लींसौ. मोक्ष कुरु २ सौ इति सदीपिनीविद्या । § 'पूर्वल्लिखित ब्रह्माण्डखण्डमश्रुतमित्यादि मयि चित्स्फुरणा कुरु इत्यन्तम्' इति पर्याय- रूपेणाधिक पाठो दृश्यते ।