गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 218, कुल 446 में से
संदर्भ में पढ़ेंत्रयोदशः पटलः । १३७ कनिष्ठाङ्गुष्ठकौ भुग्नौ करयोरितरेतरम् । तर्जनीमध्यमानामाः संहता भुग्नवर्जिताः ॥ ५२॥ मुद्रेयं गालिनी प्रोक्ता परमामृतदायिनी । *शिवचन्द्रौ मातृकान्तं कालशक्रा(द्यु?म्बु)वह्वयः ॥ ५३ ॥ वायुश्च वामकर्णेन योजिता बिन्दुनादिनः । बीजमेतत् समुच्चार्य तथा चानन्दभैरवम् ॥ ५४ ॥ ङेन्तं शिखामन्त्रयुतं पुनर्बीजानि संलिखेत् । § चन्द्रं हित्वाँदि (न?तः)कुर्यात्कर्णो वामाक्षि योजयेत् ॥५५॥ (स्वधा?सुरा)देव्यै ततो वौषट् इयमानन्दभैरवी । अनेन तौ तु संयोज्य परमानन्दनन्दितौ ॥ ५६ ॥ तदामृते तयोर्योगादमृतं क्षरतेऽचिरम् । तयोः पञ्चोपचारेषु ऋचः पञ्च नियोजयेत् ॥ ५७ ॥ प्रथमं¹प्रकृतेर्हंसः प्र तद्विष्णुरनन्तरम् । त्रैयम्बकस्तृतीयः स्याच्चतुर्थस्तत्पदादिकः ॥ ५८ ॥ विष्णुर्योनिं-पदादिस्तु पञ्चमः परिकीर्तितः । दशधा प्रजपेद्विद्यां संस्पृश्यामृतमद्रिजे ॥ ५९ ॥ वाग्भवं कामबीजं च सर्गवान् मनुयुग् भृगुः । तथामृतेपदं ब्रूयात् पश्चादमृतोद्भवे तथा ॥ ६० ॥
- १ 'शक्तौ' क पाठ । २ 'दिन' ख पाठ. । ३ 'म' क पाठ । ॐ शिवचन्द्रौ हसौ मातृकान्तं च कालो म शक्रो ल अम्बु व वह्नि र वायु य वाम- कर्ण ऊ तेन हसक्षमलवरयू आनन्दभैरवाय वौषट् । इति § उक्तमन्त्रस्यादौ सकार हित्वा वामकर्णस्थाने वामाक्षि ईमिति योज्यम् । तेन सहक्षमल- वरयी सुरादेव्यै वौषट् इति । वस्तुतस्तु हित्वेति स्थाने कृत्वेति स्पष्टः पाठो गुरुसम्प्रदायाद- नुमन्तव्य. तेन सकारमादित कृत्वेति ज्ञेय तत सहक्षमेल्यादिमन्त्र. ।