भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 217, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 217

१३६ गन्धर्वतन्त्रे । अकथादितिरेखाढ्यं हेद्वाभ्यन्तरमध्यगम् ॥ ४१ ॥ तदग्रे कामरूप च जालन्धरं च वामतः । दक्षे पूर्णगिरिं चैव मध्ये चैवोड्डियानकम् ॥ ४२ ॥ तत्र तत्र यजेद् देवीं चतुर्व्यूहस्वरूपिणीम् । सूर्यकोटिप्रतीकाशं चन्द्रकोट्ययुतप्रभम् ॥ ४३ ॥ तथा दशभुजं देवं पञ्चवक्त्रं त्रिलोचनम् । खड्गखट्वाङ्गे¹पट्टिशमुद्गरं शूलकुन्तकम्³ ॥ ४४ ॥ बिभ्रतं खेटकं² शक्तिं वरदाभयपाणि(न?क)म् । तस्योत्सङ्गे (स्वधां?सुरां)देवीं चन्द्रकोट्ययुतप्रभाम् । ४५॥ हिमकुन्देन्दुधवलां पूर्वायुधकरोद्यताम् । प्रहसन्तीं विशालाक्षीं देवदेवस्य संमुखीम्⁴ ॥ ४६ ॥ एवं ध्यात्वा समावाह्य कुलाकुलमयीं विभुः । अमृतीकरणं कुर्यान्मुद्रया धेनुसंज्ञया ॥ ४७ ॥ अवगुण्ठ्य ततो मन्त्री नीरजायतलोचने । सकलीकरणं कुर्यात् षडङ्गेन च पूर्ववत् ॥ ४८ ॥ परमीकरणं कुर्यान्महामुद्रिकया ततः । मु(ष?स)लमुद्रिकां योनिं गालिनीं च प्रदर्शयेत् ॥ ४६ ॥ वाममुष्ट्यन्तरेऽङ्गुष्ठे दक्षिणे स(वशा?रला)ङ्गुलीः । वामाङ्गुष्ठं स्पृशेदग्रे योजिना दक्षिणादधः (?) ॥ ५० ॥ मुष्टी कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणम् । कुर्यान्मु(ष?स)लमुद्रेयं सर्वविघ्नविनाशिनी ॥ ५१ ॥ १ 'इङ्गा' क पाठ । २ 'खेटक' क पाठ. । ३ 'दन्तकम्' क पाठ. । ४ 'खे' क पाठ ।