गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 216, कुल 446 में से
संदर्भ में पढ़ेंत्रयोदशः पटलः । १३५ अङ्कुशमुद्रया पश्चात् तीर्थं वै प्रार्थयेत् ततः । ऋजुमध्यमामध्यपर्वाक्रान्ता तर्जन्यधोमुखी ॥ ३१ ॥ विज्ञेयाङ्कुशमुद्रेयं कुञ्चिता मध्यपर्वतः । सौरमण्डलतः पश्चात् तीर्थमावाहयेत् तथा ॥ ३२ ॥ गङ्गावतारमन्त्रेण सर्वैस्तीर्थगणैः सह । गङ्गापि यमुनायाति पूजापात्रजलं प्रति ॥ ३३ ॥ मीनमुद्रां विधायाथ हस्ताभ्यां पात्रमुत्तमम् । आच्छाद्य परमेशानि चिन्मयं तीर्थमागतम् ॥ ३४ ॥ अधोमुखावुभौ हस्तौ स्वस्वोपरि च संस्थितौ । पार्श्वद्वयगताङ्गुष्ठौ मीनमुद्रेयमीरिता ॥ ३५ ॥ माणिक्यं मौक्तिकं देवि विद्रुमं गारुडं तथा । पुष्परागं तथा वज्रं नीलं गोमेदकं शुभम् ॥ ३६ ॥ वैडूर्यं नवरत्नानि तत्राम्भसि नियोजयेत् । रत्नेशीं पूजयेत्तत्र सर्वपापप्रणाशिनीम् ॥ ३७ ॥ श्रीबीजं च पराबीजं तथैव बीजपञ्चकम् । पूर्वबीजे विलोमेन तत्पश्चाद्विनियोजयेत् ॥ ३८ ॥ द्रव्यदोषहरा देवी रत्नेशीयं नवाक्षरी । षडङ्गानि च षट्कोणे पूर्वोक्तानि प्रपूजयेत् ॥ ३६ ॥ तन्मध्ये च परेशानि वृत्तं पूर्णेन्दुसंनिभम् । चन्द्रमण्डलरूपं तममृतं परिचिन्तयेत् ॥ ४० ॥ कलाभिस्तं प्रपूज्याथ चिन्तयेन्मध्यमण्डलम् । १ 'तु' ख. पाठः । २ 'परमेशानि' ग्व पाठः ।