गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 215, कुल 446 में से
संदर्भ में पढ़ें१३४ गन्धर्वतन्त्रे । मण्डलं तं समभ्यर्च्य साधयेदासनं ततः ॥ २० ॥ बालाबीजत्रयं देवि ततस्त्रिपुरसुन्दरी । अर्घ्यपात्रासनं चैव साधयामीति साधयेत् ॥ २१ ॥ तथैवास्त्रेण तु तथा१ सामान्यार्घ्योदकेन तु । प्रक्षाल्य परमेशानि मण्डले स्थापयेत्ततः ॥ २२ ॥ वह्निमण्डलरूपं तं कलाभिः सह पूजयेत् । पूर्ववत् परमेशानि पात्रं प्रक्षाल्य साधकः ॥ २३ ॥ विशेषार्घ्यपदात् पात्रं प्रतिशब्दादनन्तरम् । स्थापयामीति मनुना संस्थाप्य तदनन्तरम् ॥ २४ ॥ सूर्यमण्डलरूपं तं कलाभिः सह पूजयेत् । पूजयेत्तं विधानेन बिन्दु[श्रु?स्रु]तसुधामयैः ॥ २५ ॥ मातृकां प्रतिलोमेन मूलाभिमन्त्रितामृतैः । आदिमैः पूरयेद्वापि तथा पुष्पासवैरपि ॥ २६ ॥ कपिलायास्तथा क्षीरैर्नारिकेलामृतैरपि । इक्षुरसैः सुगन्धैश्च मधुरत्रितयेन वा ॥ २७ ॥ पूरयेत् तन्महापात्रं नानाद्रव्यैः कदाचन । अधिकारिप्रभेदेन द्रव्यभेदा भवन्ति हि ॥ २२८ ॥ स्वयंभूकुसुमं तत्र कर्पूरागुरुचन्दनैः । रोचनाकुङ्कुमैर्मिश्रं कस्तूरीपरिभावितम् ॥ २६ ॥ निक्षिपेत् परमेशानि शर्करां मधुसंयुताम् । पूर्वोक्रमण्डलं तत्र संचिन्त्य साधकोत्तमः ॥ ३० ॥ १ 'युतया' इति क पाठ । २ 'काप्रति' क पाठ ।