गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 214, कुल 446 में से
संदर्भ में पढ़ेंत्रयोदशः पटलः । १३३ देवीप्रीतिकरं ताम्रं तस्मात् ताम्रं प्रयोजयेत् । शङ्खशुक्तिरजतस्वर्णैर्दिव्यानां पात्रमिष्यते ॥ १०॥ महाशङ्खैस्तु वीराणां फलजं वनवासिनाम् । अष्टाङ्गुलस्य न न्यूनं नाधिकं सार्धपाङ्कितः ॥ ११ ॥ सर्वेषामेव पात्राणां मानमेवं विधीयते । पञ्चरत्नैर्महादेव्याः पञ्च पात्राणि कारयेत् ॥ १२ ॥ सामान्यं च विशेषं च पाद्यमाचमनीयकम् । कुम्भं चापि प्रयत्नेन रत्नैः कुर्याद्विभूतये ॥ १३ ॥ रत्नं गगनसंज्ञं च स्वर्गरत्नं तथैव च । मर्त्यपातालरत्ने च नागरत्नं तथैव च ॥ १४ ॥ गारुडं चैव माणिक्यं वज्रं वैदूर्यमेव च । नीलं च क्रमतो विद्यात् पञ्च रत्नानि योजयेत् ॥ १५ ॥ बीजपञ्चकमेतेषां क्रमाद्वक्ष्ये सुदुर्लभम् । गसौ च (स?प)मनाः पश्चादिन्द्रस्थाः *क्रमतः प्रिये ॥१६॥ नादबिन्दुकलायुक्ता वामकर्णविभूषिताः । तर्पणार्थं विशेषेण चक्रपूजानिवेदने ॥ १७ ॥ श्रीपात्रं साधयेद्धीमान् विधिना साधकोत्तमः । योनिमुद्रां विधायादौ कुर्यादर्घ्यस्य साधनम् ॥ १८ ॥ आत्मश्रीचक्रयोर्मध्ये चतुरस्रं तु कारयेत् । तन्मध्ये चैव षट्कोणं तन्मध्ये वृत्तमुत्तमम् ॥ १६ ॥ त्रिकोणं तत्र संलिख्य चन्दनेन वरानने । १ 'जत्स्थ' क पाठः ।
- 'इन्द्रस्था इति लकारस्था' तेन ग्लूं स्लू प्नूं म्लू न्हूँ इति ।