भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 220, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 220

त्रयोदशः पटलः । १३६ गुरुत्रयं च संतर्प्य वटुकादीन् प्रतर्प्य च ॥ ६९ ॥ प्रलयानलसंकाशे चिदग्नौ जुहुयात् ततः‡ । आत्मनः कुण्डलिन्याश्च हुत्वा वै ब्रह्मरन्ध्रके ॥ ७० ॥ बीजत्रयेण त्रिः प्राश्य मुद्रया तत्त्वसंज्ञया । विशुद्धान्तर्मनाः पूतो योग्यः स्याद्यागकर्मणि ॥ ७१ ॥ अमृतत्वं कवित्वं च प्राश्यामृतं लभेन्नरः । भ्रंशनादस्य पात्रस्य भूमौ बिन्दुनिपातनात् ॥ ७२ ॥ अशुभं स्यात् तदा तस्य होमाच्छान्तिर्नचान्यतः । प्रोक्षयेत् तेन चात्मानं मूलेन वारुणेन वा ॥ ७३ ॥ पूजोपकरणं चापि त्रिरभ्युक्ष्य तथैव हि । अमृतैः प्रोक्षितं यत्तु सर्वं ब्रह्ममयं भवेत् ॥ ७४ ॥ यदन्यद् दीयते द्रव्यमलंकारादिकं च यत् । वरुणास्यैव बीजेन तेषां प्रोक्षणमाचरेत् ॥ ७५ ॥ सर्वेषां देवमुच्चार्य मूलमुच्चार्य पूर्वतः । अर्घ्यपात्रस्थतोयेन प्रतिनाम्ना निवेदयेत् ॥ ७६ ॥ अन्यतोयैस्तु संसृष्टमर्घ्यपात्रस्थितैतरैः । तन्न गृह्णातीष्टदेवी दत्तं विधिशतैरपि ॥ ७७ ॥

इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे बहिर्यागविधौ विशेषार्घ्यपा- त्रादिसाधनक्रमनिरूपणं त्रयोदशः पटलः ॥१३॥


‡ अयमत्र मन्त्र —आर्द्रं ज्वलति ज्योतिरेवाहं ब्रह्माहमस्मि साहमस्मि अहमेवाहं मा जुहोमि स्वाहा ॥