भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 221, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 221

चतुर्दशः पटलः। —०— ईश्वर उवाच आधारशक्तिमारभ्य कामेश्वरान्तमद्रिजे । पूजयेत् साधको भक्त्या पीठं मन्त्रमयं पुरः ॥ १ ॥ ओंकारबिन्दुमध्यस्थं नामधेयाद्यमक्षरम् । देवतानां स्वबीजं तत्पूजायामृद्धिसिद्धिदम् ॥ २ ॥ कामपीठं ततो ध्यात्वा पूजयेत् साधकस्तथा । देवं कामेश्वरं तत्र ह्येकवक्त्रं चतुर्भुजम् ॥ ३ ॥ भस्मा(श्रु?श्वि)तं मध्यहृदि रक्तार्कं च कुङ्कुमैः । त्रिशूलं च पिनाकं च वामहस्तद्वये धृतम् ॥ ४ ॥ उत्पलं बीजपूरं च दक्षिणाद्वितये तथा । श्वेतपद्मोपरिस्थं च ध्यात्वा मध्ये प्रपूजयेत् ॥ ५ ॥ शक्त्या युक्तो यदा देवि साधकः परिचिन्तयेत् । आयुधा[नाम?नां स्व]रूपं च मूलदेव्यां समं निशि ॥ ६ ॥ शांभवेनं यजेद् देवं पूर्वोक्तेन च साधकः । सप्तम्या मूलमुच्चार्य महात्रिपुरसुन्दरी ॥ ७ ॥, अमृतपदमुच्चार्य चैतन्यमूर्तिमादितः । कल्पयामीति मनुना मूर्ति संचिन्तयेत् तथा ॥ ८ ॥ देवीं कामेश्वराङ्कस्थां परमानन्दनन्दिताम् । साधकाय प्रयच्छन्तीं पुरुषार्थचतुष्टयम् ॥ ६ ॥ आनन्दालसया दृष्ट्या वीक्षन्तीं करुणार्द्रया । १ 'श्या.' क पाठः । २ 'वाम्येन' क पाठ ।