भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 222, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 222

चतुर्दशः पटलः । १४१ नाराचमुद्रया पश्चाद्रक्षां मन्त्रेण कारयेत् ॥ १०.॥ अवगुण्ठ्य ततो मन्त्री कुर्याद् दिग्बन्धनं ततः । प्राणायामं ततः कृत्वा गृह्णीयात् कुसुमाञ्जलिम् ॥ ११ ॥ पुष्पाञ्जलिं विना देवीं नावाइयेत् कदाचन । ततो ध्यायेन्महादेवीं यथोक्तां परमेश्वरीम् ॥ १२ ॥ प्रत्यञ्चीकृत्य हृदये जितप्राणोऽथ साधकः । ऐक्यं संचिन्तयेद् देव्या बाह्यान्तर्मूर्तियुग्मयोः ॥ १३ ॥ ततस्तु वायुबीजेन वह्निनासापुटेन तु । तच्चैतन्यं विनिःसार्य पुष्पाञ्जलौ निवेशयेत् ॥ १४ ॥ नासिकावायुनिःसारात् पुष्पस्था देवता भवेत् । यावत् संस्थापयेद् देवीं स्वहस्तं न वियोजयेत् ॥ १५ ॥ कृते वियोगे हस्तस्य पुष्पात् तस्मान्महेश्वरि । गन्धर्वैः पूज्यते देवी पूजकैर्नाप्यते फलम् ॥ १६ ॥ त्रिखण्डामुद्रया तस्मात् तामावाहनविद्यया । निर्गमय्यातिदीप्ताभां श्रीपीठान्तर्निधारयेत् ॥ १७ ॥ पाणिद्वयं समं सम्यक् परिवर्तनयोगतः । योजयित्वा तर्जनीभ्यामनामे धारयेत् ततः ॥ १८ ॥ मध्यमे योजयेन्मध्ये कनिष्ठे तदधस्ततः । अङ्गुष्ठावपि संयोज्यौ त्रिधा युग्मक्रमेण तु ॥ १६ ॥ त्रिखण्डेयं महामुद्रा त्रिपुराह्वानकर्मणि । हेंसबीजसमारूढा बाला चाग्न्यासनस्थिता ॥ २० ॥ २ 'हस' क पाठ ।