गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 223, कुल 446 में से
संदर्भ में पढ़ें१४२ गन्धर्वतन्त्रे । अनया*मूलमुच्चार्य मुद्रया च त्रिखण्डया । महापद्मवनान्तःस्थे कारणानन्दविग्रहे ॥ २१ ॥ सर्वभूतहिते मातरेह्येहि परमेश्वरि । देवेशि भक्तिसुलभे परिवारसमन्विते ॥ २२ ॥ अस्यां (मूर्त्तौ) समागच्छ स्थितिं मत्कृपया कुरु । एहि देवि प्रभावात् ते शुभदे भयनाशिनि ॥ २३ ॥ यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव । कामेशि त्वमिहागच्छ सर्वैः परिकरैः सह ॥ २४ ॥ पूजाकर्मणि सांनिध्यमिह कल्पय कामिनि । कामेश्वरि समागच्छ कामेशाङ्कनिषेदुषि ॥ २५ ॥ अव्युच्छिन्नां मतिं शुद्धां वाचं कण्ठस्य देहि मे । एवं कृते महादेवि स्थितितस्त्याः प्रजायते ॥ २६ ॥ सम्यक् संपूरितः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः । आवाहनी समाख्याता मुद्रा सर्वार्थसाधिका ॥ २७ ॥ अधोमुखीकृता सैव तदा वै स्थापनी भवेत् । मिलितं मुष्टियुगलं संनिधापनरूपिणी ॥ २८ ॥ अन्तरङ्गुष्ठमुष्ट्या तु संनिरोधनरूपिणी । एतस्या एव मुद्रायास्तर्जन्यौ (सवने? प्रसृते) यदा ॥ २९ ॥ अवगुण्ठनमुद्रेयं सर्वरक्षाकरी मता । अमृतीकरणं कुर्यात् साधको धेनुमुद्रया ॥ ३० ॥ परिवर्त्य करौ पश्चात् तर्जनीमध्यमे युगे ।
- ह्स्त्रैं हसकलरीं ह्स्त्रौ इति त्रिखण्डाविद्या ।