गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 211, कुल 446 में से
संदर्भ में पढ़ें१३० गन्धर्वतन्त्र । इच्छाशक्तिमयं पाशमङ्कुशं ज्ञानरूपिणीम् । क्रियाशक्तिमये बाणधनुषी दधतीं पराम् ॥ १३३ ॥ कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् । महामृगमदोद्दामकुङ्कुमारुणविग्रहाम् ॥ १३४ ॥ सर्वशृङ्गारवेशाढ्यां सर्वालंकारभूषिताम् । जगदाह्लादजननीं जगद्रञ्जनकारिणीम् ॥ १३५ ॥ जगदाकर्षणकरीं जगत्कारणरूपिणीम् । सर्वदेवमयीं देवीं सर्वमन्त्रमयीं पराम्३ ॥ १३६ ॥ सर्वलक्ष्मीमयीं साक्षात्परमानन्दरूपिणीम्४ । निर्लेपं निर्गुणं शुद्धमात्मानं त्रिपुरामयम् ॥ १३७ ॥ आत्माभेदेन संचिन्त्य याति तन्मयतां नरः । साहमित्यस्य सततं चिन्तनात्तन्मयो भवेत् ॥ १३८ ॥ तामेव चिन्तयेद्देवि नान्यत् किंचित्तया विना । तत्तेजोभिरिदं सर्वं परिपूर्णं विभावयेत् ॥ १३६ ॥ एवं भावनयाविष्टो६ देववद्विहरेत् क्षितौ । ध्यानयोगपरस्यास्य पूज्यो नास्तीह कश्चन ॥ १४० ॥ स एव सुकृती लोके स पूज्यो नतु पूजकः७ । योगात्मा योगविज्ज्ञानी स देवो नतु मानुषः ॥ १४१ ॥ संन्यासी स च विन्यासी युक्तात्मा स मुनिर्मतः । नासाध्यं वर्तते तस्य स सिद्धो योगिपुङ्गवः ॥ १४२ ॥ इन्द्रियप्रीणनैर्द्रव्यैस्तोषयेद् भूषयेत् सदा । १ 'स्थापन' ख पाठः । २ 'मन्त्र' क. पाठः । ३ 'सौभाग्यसुन्दरीम्' ख. पाठः । ४ 'नित्या' ख. पाठः । ५ 'सुन्दरीम्' ख. पाठ । ६ 'सो' ख पाठः । ७ 'दृष्टो' ख. पाठः ।