गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 212, कुल 446 में से
संदर्भ में पढ़ेंद्वादशः पटलः । १३१ आत्मानमेव सततं पूजयेद् देवताधिया ॥ १४३ ॥ देववद्विहरेन्नित्यं कालयोगपरायणः । यत् पश्यति यच्छृणोति गीतनृत्यादिकं च यत् ॥ १४४ ॥ परिदधाति यत्किंचित् स्वयं यदनुलिम्पति । हस्त्यश्वरथखट्वादि यदारोहति साधकः ॥ १४५ ॥ यत् करोति यदश्नाति तत् सर्वं देवताधिया । विषयान् विषयी भुङ्क्ते यानेव स्वमनोरथान् ॥ १४६ ॥ तत्तत् समग्रमासाद्य तत्सर्वं देवताधिया । जाग्रदादि सुषुप्त्यन्तं सर्वं तद्देवताधिया ॥ १४७ ॥ दिव्य एव भवेत्तत्र न चैवान्यः कदाचन । तस्माद् दिव्यपरो यस्तु देवीमानन्दरूपिणीम् ॥ १४८ ॥ पूजयेत् सततं भक्त्या महात्रिपुरसुन्दरीम् । मोक्षार्थी लभते मोक्षं ध्यानयोगपरायणः ॥ १४६ ॥ तां तु यश्चिन्तयेद्रात्रौ भोगी ध्यानपरायणः । कामेश्वराङ्कपर्यङ्कसमासीनां परां कलाम् ॥ १५० ॥ सर्वाङ्गसुन्दरीं हृद्यां प्रसादसुमुखेक्षणाम् । सकारेणामभिध्यायेत् सर्वाङ्गेषु मनो दधत् ॥ १५१ ॥ चतुर्वर्गं करे तस्य जीवन्मुक्तः स एव हि । इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे ध्यानयोगनिरूपणं द्वादशः पटलः ॥ १२ ॥ १ 'ध्यान' क पाठ. । २ 'करुणा' ख पाठ. ।