भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 225, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 225

१४४ गन्धर्वतन्त्रे । देवीपादाम्बुजद्वन्द्वे पुष्पाञ्जलित्रयं दिशेत् । तथैव^१ तर्पयाम्यन्ते मुद्रया तर्पयेत् त्रिधा ॥ ४२ ॥ प्रार्थनमुद्रया पश्चादभ्यर्थयेदनेन तु । प्रसादसंमुखे देवि प्रसन्ना भव सुन्दरि ॥ ४३ ॥ पूजाभागं गृहाणेमं मामकं भक्तवत्सले । अहं यद्यपि देवेशि दुर्बलोऽप्यल्पसाधनः ॥ ४४ ॥ भक्त्या करोमि पूजां ते कृपयानुगृहाण माम् । प्रसृताङ्गुलिकौ हस्तौ मिथःश्लिष्टौ च संमुखौ ॥ ४५ ॥ कार्यौ च हृदये सेयं मुद्रा प्रार्थनसंज्ञिका । संदर्शयेत् स्वस्वबीजपूर्वं मु(द्रां त?द्रास्त)तो नव ॥ ४६ ॥ संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः । खेचरीबीजयोन्याख्या नव मुद्रास्ततः क्रमात् ॥ ४७ ॥ एता मुद्रा महेशानि ब[न्ध?न्धू]ककुङ्कुमप्रभाः । खखमुद्रांकराः सर्वाः श्रीविद्यासंमुखी(:)स्मरेत् ॥ ४८॥ अथैवं परमेशान्या उपचारान् निवेदयेत् । भक्त्यैवैते कृता देवि साधकं देवसंनिधिम् ॥ ४६ ॥ चारयन्ति यतस्तस्मादुच्यन्ते चोपचारकाः । समीपे चारणाद्वापि[कला?बालि]कान्ते तथोदिताः ॥५०॥ नमोन्तमासनं दद्यात् स्वागतं दर्शनं भवेत् । नमोन्तं पाद्योः पाद्यमर्घ्य [शिवो?नमो]न्तमेव च ॥ ५१ ॥ स्वधेत्याचमनं [प्राज्ञि?प्रोक्तं] मधुपर्कस्तथैव च । १ 'द्रा' क पाठ ।