गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 226, कुल 446 में से
संदर्भ में पढ़ेंचतुर्दशः पटलः । १४५ तेनैव मनुनाचामं नमोन्तं स्नानमेव च ॥ ५२ ॥ नमोन्ते वाससी प्रोक्ते तथाङ्गाभरणानि च । नमोन्तमर्पयेत्(कुन्दं?गन्धं)पुष्पं चै¹ वौषडन्तकम् ॥ ५३ ॥ पुष्पं समर्पयेद् देव्यै मुद्रया ज्ञानसंज्ञया । अङ्गुष्ठतर्जनीयोगाज् ज्ञानमुद्रेयमीरिता ॥ ५४ ॥ नमोन्तं च तथा धूपं दीपं² मालां तथैव च । नैवेद्यं च ततो दद्याद्यथोक्तं वै चतुर्विधम् ॥ ५५ ॥ पानार्थं मधुरं वारि दद्यादाचमनं पुनः । कर्पूरसहितं देव्यै ताम्बूलं च निवेदयेत् ॥ ५६ ॥ तर्पणानि पुनर्दद्यात् त्रिपुरात्तत्वमुद्रया । अङ्गुष्ठानामिकायोगात्³ तत्त्वमुद्रेयमीरिता ॥ ५७ ॥ अङ्गुष्ठं शिवमित्याहुरनामा शक्तिरुच्यते । तर्पणं तु तयोर्गादमृतैर्वामपाणिना ॥ ५८ ॥ योनिमुद्रां प्रदर्श्याथ मुद्राः संदर्शयेत् क्रमात् । स्तुत्वा प्रणम्य विधिवज्जपेद्विद्यामनन्यधीः ॥ ५९ ॥ जपान्ते जुहुयादग्निं होमान्ते बलिमुत्सृजेत् । बलिदानावसाने तु निवेद्यानि निवेदयेत् ॥ ६० ॥ दशाङ्गाद्यैस्ततो धूपैः पुनर्देवीं प्रधूपयेत् । दीपमालाः प्रदर्श्याथ पादाङ्गललाटकावधि ॥ ६१ ॥ वीरेश्वराय वौषट् चै सिन्दूरं दापयेदथ । अङ्गरागेषु सिन्दूरं पानेषु मदिरां तथा ॥ ६२ ॥ १ 'च नास्ति' क पाठ । २ 'पमा' क पाठ । ३ 'ग' क पाठ । ४ 'पडिति' क पाठ ।