भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 227, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 227

१४६ गन्धर्वतन्त्रे । वस्त्रेषु रक्तकौशेयं त्रिपुराप्रीतिदायकम् । नेत्राञ्जनं निवेद्याथ दर्शयेद् दर्पणं तथा ॥ ६३ ॥ मूर्ध्नि च्छत्रं निधायाथ वीजयेद्रक्तचामरैः । सितैर्वा परमेशानीं नतु कृष्णैः कदाचन ॥ ६४ ॥ वादयेच्छङ्खघण्टे च पुनःपुनः प्रधूपयेत् । ततः संतोषयेद् देवीं गीतवादित्रनिःस्वनैः ॥ ६५ ॥ वाद्यैर्नानाविधैर्देवि क्रीडाकौतुकमङ्गलैः । नटनर्तकसङ्घैश्च वेश्याभिरपि पार्वति ॥ आत्मना सर्वभावेन निवेद्य तन्मयो भवेत् ॥ ६६ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे बहिर्यागविधिनिरूपणं चतुर्दशः पटलः ॥ १४ ॥ १ 'षेय' क. पाठः । २ 'यञ्छ्र' क. पाठः । ३ 'है' क. पाठः ।