भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 228, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 228

पञ्चदशः पटलः। ──────── 0 ──────── श्रीदेव्युवाच उपचारान् कथं देव फलं तेषां च कीदृशम् । यच्च प्रियतमं देव्यास्तत् सर्वं वद शंकर ॥ १ ॥ ईश्वर उवाच उपचारान् प्रवक्ष्यामि शृणु षोडश पार्वति । यैः साक्षात्¹ तुष्यते देवी विधानैर्विहितैर्वि[दुःभुः] ॥ २ ॥ सौवर्णं राजतं वस्त्रं तथा रत्नविनिर्मितम् । आसनं प्रथमं दद्यात् पौष्पं दारवमेव वा ॥ ३ ॥ न पत्रमासनं दद्यात् कदाचिदिह पूजने । यथोक्तविधिना देव्यै रक्तकम्बलमेव वा ॥ ४ ॥ सुमेरुपादपीठान्ते पद्मकल्पित आसने³ । भोगमोक्षप्रदे मातस्तिष्ठस्व परमेश्वरि ॥ ५ ॥ अनेनैवासनं देव्यै यो दद्याद्विहितं शिवे । भुक्तिमुक्ती करे तस्य सर्वत्र स्थानवान् भवेत् ॥ ६ ॥ पा(द्या?दा)⁵र्थमुदकं पाद्यं चन्दनागुरुसंयुतम् । सुशीतलं❄मया देवि सुखाय तव पादयोः ॥ ७ ॥ तत्तैजसेन पात्रेण शङ्खेनाथ प्रदापयेत् । धर्मार्थकाममोक्षाणां संस्थानं पाद्यमिष्यते ॥ ८ ॥ १ 'स्यात्' ख पाठ । २ 'रिडिनै' क पाठ । ३ 'स्व' क पाठ । ४ 'तमासनम्' ख पाठ । ५ 'द' क पाठ । ❄ निवेदितमितिशेष ।