गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 229, कुल 446 में से
संदर्भ में पढ़ें१४८ गन्धर्वतन्त्रे । पाद्यमन्त्रो मया प्रोक्त(म?स्त्व)नेनैव निवेदयेत् । अर्घ्येण लभते कामानर्घ्येण लभते धनम् ॥ ६ ॥ पुत्रायुःसुखमोक्षा(शि?दि) ढानाढ(र्घ?र्घ्य)स्य वै लभेत् । पूर्वसंस्थापितेनैव शङ्खेन विधिना स्वयम् ॥ १० ॥ श्वेतसर्षपमुद्गाभ्यां तिलक्षीरैस्तथा यवैः । रक्तचन्दनपु(ष्पे च ?ष्पैश्च) त्रिपुरायै महेश्वरि ॥ ११ ॥ निधाय पुरतो दद्यादर्घ्यमन्त्रेण साधकः । अर्घ्यमर्घ्यमिदं देवि मया भक्त्या निवेदितम् ॥ १२ ॥ सजलं शङ्खपात्रस्थं गृहीत्वा मूर्ध्नि योजय । उदकं दीयते य[स्तु?त्तु] सगन्धं फेनवज्र्जितम् ॥ १३ ॥ आचमना(द्यं?र्थं)देवाय तदाचमनमुच्यते । कर्पूरवासितैर्वापि कालागुरुप्रधूपितैः ॥ १४ ॥ यथा तथा सगन्धैर्वा प्रसत्रैः [क?फे]नवर्जितैः । दद्यादाचमनीयं तु सगन्धसलिलैः शुभैः ॥ १५ ॥ तैजसेन तु पात्रेण शङ्खेनाप्यथवा प्रिये । आयुर्बलयशोवृद्धिं प्रदायाचमनीयकम् ॥ १६ ॥ लभते साधको नित्यं[स?का]मांश्चैव यथेप्सितान् । सगन्धाचमनं देवि मया भक्त्या निवेदितम् ॥ १७ ॥ आयुर्बलयशोवृद्धयै तदिदं प्रतिगृह्यताम् । दधि सर्पिर्जलं क्षौद्रं सितामिश्रापि[पञ्चभिः?सेत्तुभिः] १८ प्रोच्यते मधुपर्कस्तु देवीप्रीतिप्रदायक । १ 'तम्' क पाठ । २ 'के तु' क पाठ