भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 230, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 230

पञ्चदशः पटलः। १४६ जलं च नारिकेलोत्थं सिता दधि घृतं समम् ॥ १९ ॥ सर्वेषामधिकं क्षौद्रं मधुपर्के प्रयोजयेत् । तद्दद्यात् कांस्यपात्रेण रोप्यपात्रेण वा पुनः ॥ २० ॥ ज्योतिष्टोमाश्वमेधादौ यत् पुण्यं लभते नरः । सर्वं तत् परमेशानि मधुपर्के प्रतिष्ठितम् ॥ २१ ॥ आज्यं दधि मधुन्मिश्रं जलं चापि सशर्करम् । मधुपर्कं रोप्यपात्रे गृहीत्वा भुङ्क्ष्व सुन्दरि ॥ २२ ॥ मधुपर्कं विना पूजा साधकक्षयकारिणी । मधुपर्क्रमदृष्ट्वैव साधकं भक्षयेत् परा ॥ २३ ॥ कर्पूरागुरुकस्तूरीरोचनाकुङ्कुमं तथा । नारिकेलजलं क्षौद्रं तथेक्षुरसमुत्तमम् ॥ २४ ॥ सितां च पञ्चगव्यं च सर्वौषधिगणं तथा । प्रान्ते तोयमिति प्रोक्तं स्नानीयं त्रिपुराप्रियम् ॥ २५ ॥ भृङ्गारेणाथवा शङ्खैस्त्रिपुरायै निवेदयेत् । साधकः स्नानदानात्तु हयमेधफलं लभेत् ॥ २६ ॥ दीर्घायुः कामभोगी च महापातकहा भवेत् । प्रत्येकं सर्ववस्तूनां सहस्रपलमानतः ॥ २७ ॥ महास्नानं भवेद्देवि मध्यं पलशतेन तु । कनिष्ठं वै भवेत् स्नानं प(लानां ? लैः) दशभिरीरितम् ॥ २८ ॥ मिश्रीकृतैस्तु सर्वेषां स्नानमानं न विद्यते । स्नपयेत् प्रथमं देवीं त्रिपादिति ऋचा पुनः ॥ २६ ॥ 'रौप्य' क पाठ । २ तां' क पाठः । ३ 'स्ना' क पाठः ।

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक) · पृष्ठ 230, कुल 446 में से · BharatKosha