गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 231, कुल 446 में से
संदर्भ में पढ़ें१५७ गन्धर्वतन्त्रे । मूलेनापि ततः पश्चादमुना च निवेदयेत् । त्वमापः पृथिवी चैव ज्योति(स्तं?स्त्वं)वायुरेव च ॥ ३०॥ केवलं भक्तिभावेन देवि त्वां स्नपयाम्यहम् । स्नपयित्वा महादेवीं वस्त्र यदि न दापयेत् ॥ ३१ ॥ स निर्लज्जः परः पापः प्रपते(द्?द्वृ)जिनार्णवे । वस्त्राभावे ततो दद्याद्रक्तपद्मं तथा ज(वाः?पाः) ॥ ३२॥ स्नपयित्वा महादेवीं वस्त्रयुग्मं प्रदापयेत् । वस्त्रेण ह्रियते लज्जा वस्त्रेण ह्रियते त्वघम् ॥ ३३ ॥ सर्वभूषणवर्गेषु वस्त्रमुत्तममुच्यते । देवीप्रीतिकरं वस्त्रं चतुर्वर्गप्रदं शुभम् ॥ ३४ ॥ निर्दशं मलिनं जीर्णं छिन्नं गात्रावलिङ्गितम् । परकीयं ह्या²(थु?खु)दष्टं सूचीविद्धं तथोषितम् ॥ ३५ ॥ सत्पताका(रि?वि¹)तानादौ सूचीविद्धं प्रयोजयेत् । केशान्वितमधौतं च श्लेष्ममूत्रादिदूषितम् ॥ ३६ ॥ वह्निदग्धं कुचैलं च महादेव्यै न दापयेत् । चित्रवस्त्रं दुकूलं च देवीप्रीतिकरं परम् ॥ ३७ ॥ सर्वसिद्धिप्रदं वस्त्रं वह्निष्टोमफलप्रदम् । विद्यातन्तुसमायुक्ते मन्त्रवर्णसमन्विते ॥ ३८ ॥ विद्याविद्ये ज(वा?पा)शोणवाससी तव सुन्दरि । उद्यदादित्यसंकाशं वासोयुग्मं सुनिर्मलम् ॥ ३६ ॥ नूतनं गात्रसुखदं परिधत्स्व सुरेश्वरि ।
१ 'वी' क पाठ । २ 'स्त्रा' क पाठ ।