गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 233, कुल 446 में से
संदर्भ में पढ़ें१५२ गन्धर्वतन्त्रे । निष्पीड्य गृह्यते योऽसौ संमर्द्जः स उच्यते । मृगनाभिसमुद्भूतस्तत्कोशोद्भव एव वा ॥ ५१ ॥ गन्धः प्राणयङ्गजः प्रोक्तः पञ्चमस्तु स उच्यते । गन्धस्य विस्तरो भेदो दिङ्मात्रं समुदाहृतम् ॥ ५२ ॥ सर्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः । तस्मात् सर्वप्रयत्नेन दद्यान्मलयजं सदा ॥ ५३ ॥ कुङ्कुमागुरुकस्तूरीकर्पूरमलयोद्भवैः । समीकृतैस्तु यो गन्धस्त्रिपुराप्रीतिदायकः ॥ ५४ ॥ कुचन्दनं [शि? सि]तं चैव कालीयकसमन्वितम् । अनुलेपनमुख्यं तु देव्याः प्रीतिकरं परम् ॥ ५५ ॥ अलक्तं नखरागेषु देवीप्रीतिकरं तथा । गन्धेन लभते कामान् गन्धो धर्मप्रदः सदा ॥ ५६ ॥ अ[श्वा? ङ्गा]नां साधको गन्धो मोक्षे चापि प्रतिष्ठितः । शरीरं ते न जानामि चेष्टां [चै? श्चै]व महेश्वरि ॥ ५७ ॥ मया निवेदितान् गन्धान् प्रतिगृह्य विलिप्यताम् । गन्धैः सुतोषिता देवी चतुर्वर्गप्रदा भवेत् ॥ ५८ ॥ अनेनैव महेशानि गन्धान् देव्यै निवेदयेत् । घृततैलादियोगेन स्वर्णादौ दीपवह्निना ॥ ५६ ॥ यदञ्जनं प्रजायेत कृत्वा कर्पूरमिश्रितम् । धर्मार्थकाममोक्षाय त्रिपुरायै निवेदयेत् ॥ ६० ॥ विधवा ना(च्छ? ञ्ज)नं कुर्यान्महामायार्थमद्रिजे । १ ‘पोद्भव’ क पाठ ।