गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 234, कुल 446 में से
संदर्भ में पढ़ेंपञ्चदशः पटलः । १५३ न मृत्पात्रे गतं कुर्यात् साधको नेत्ररञ्जनम् ॥ ६१ ॥ न पूजाफलमाप्नोति मृत्पात्रे विहिताञ्(लैः?नैः) । परकीयांस्तथा घ्रातान् स्तेयं कृ(त्या?त्वा)भिमर्दितान् ॥ ६२॥ पुष्पं धूपं च गन्धं च नोपच[रान्? रेत्] तथापरान् । घ्रातान् निवेद्य देवेशि नरो नरकमाप्नुयात् ॥ ६३ ॥ नैव पर्युषितैः पुष्पैः पत्रैश्चापि महेश्वरीम् । पूजयेत् परमेशानि महात्रिपुरसुन्दरीम् ॥ ६४ ॥ सर्वं पर्युषितं वर्ज्यं पत्रं पुष्पं फलं तथा । पद्मानि सितरक्तानि कुमुदान्युत्पलानि च ॥ ६५ ॥ एषां पर्युषिताशङ्का कार्या पञ्चदिनोर्ध्वतः । अन्येषां कुसुमानां च यावद्गन्धविपर्ययः ॥ ६६ ॥ बिल्वपत्रे महेशानि नास्ति पर्युषितात्मता । बकुलं केसरं वज्रं माल्यं कुन्दं च शाल्मलम् ॥ ६७ ॥ करवीरं चार्कपुष्पं बन्धूककमले तथा । मालती मल्लिका जाती यूथिका माधवी तथा ॥ ६८ ॥ तगरः कर्णिकारश्च द्रोणश्चोत्पलचम्पकौ । अशोकः कुमुदश्चैव शेफालिकाकदम्बकौ ॥ ६९ ॥ केतकी वनमाला च कुसुम्भर्किंशुकौ तथा । कह्लारबकुले चैव लवङ्गनागकेसरौ ॥ ७० ॥ सर्वेषु पुष्पजातेषु त्रिपुरायाः सदैव हि । एतान्येव प्रियाणि स्युर्न पत्रैरर्चयेच्छिवाम् ॥ ७१ ॥ पत्रेषु बिल्वपत्रं च तथा मदनपल्लवम् । १ 'र्ध्वत.' क पाठ । २ 'ला' ख पाठ ।