गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 238, कुल 446 में से
संदर्भ में पढ़ेंपञ्चदशः पटलः । १५७ त्रयो दीपाः प्रदातव्याः पञ्च वा परमेश्वरि ॥ १०५ ॥ इतो न्यूनं न दातव्यं त्रिपुरायै कदाचन । नैव दीपः प्रदातव्यो विधूतः श्रीविवृद्धये ॥ १०६ ॥ न मिश्रीकृत्य दद्यात् तु दीपस्नेहान् घृतादिकान् । कृत्वा मिश्रीकृतस्नेहं रौरवं नरकं व्रजेत् ॥ १०७ ॥ नैव निर्वापयेद् दीपं देवार्थमपि कल्पितम् । दीपहर्ता भवे[द्व?द]न्धः का[नो?णो]निर्वापको भवेत् ।१०८। न तेन व्यवहारोऽपि कर्तव्यः साधकोत्तमैः । सूर्याचन्द्रमसोर्ज्योतिर्विद्यु[द?तोऽ]ग्रेस्तथैव च ॥ १०६ ॥ त्वमेव ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् । दीपं दक्षिणतो देव्याः पुरतो नतु वामतः ॥ ११० ॥ वामतस्तु तथा धूपमग्रे वा नतु दक्षिणे । निवेदयेत् पुरोभागे गन्धं पुष्पं च भूषणम् ॥ १११ ॥ नैवेद्यं दक्षिणे वामे पुरतो वा न पृष्ठतः । गात्रे दातुं च यद्योग्यं यन्त्रेष्वेव निवेदयेत् ॥ ११२ ॥ दद्याद्यथोग्यं पुरतो नैवेद्यं भोजनादिकम् । मदिरां पृष्ठतो दद्यादन्यपानं तु वामतः ॥ ११३ ॥ या विद्या चेह देवेशि श्रीविद्यायामनासवा । फलहीना समाख्याता साभिचाराय कल्पते ॥ ११४ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पूजोपचारतत्फलवर्णनं पञ्चदशः पटलः संपूर्णः ॥ १५ ॥ १_ 'बी' क पाठ ।