गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 237, कुल 446 में से
संदर्भ में पढ़ें१५६ गन्धर्वतन्त्रे । वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः ॥ ६४ ॥ आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् । अथ दीपं प्रवक्ष्यामि ज्योतिष्टोमफलप्रदम् ॥ ६५ ॥ घृतदीपस्तु प्रथमस्तिलतैलोद्भवस्ततः । सार्षपश्चाधमः प्रोक्तस्तदन्यो निन्दितः स्मृतः ॥ ६६ ॥ पद्मसूत्रभवा चाद्या कार्पाससंभवा परा । दर्भगर्भभवा चापि वर्तिका परिकीर्तिता ॥ ६७ ॥ को[ष?श]जं रोमजं वस्त्रं तूलं पर्युषितं तथा । वर्तिकार्थं न चादद्यात् साधको भूतिमिच्छुकः ॥ ६८ ॥ तैजसं पार्थिवं लौहं दीपपात्रं प्रशस्यते । दीपवृक्षाश्च कर्तव्यास्तैजसाद्याः पृथक् पृथक् ॥ ६६ ॥ वृक्षे दीपः प्रदातव्यो नतु भूमौ कदाचन । कुर्वन्तं पृथिवीतापं यो दीपमुत्सृजेन्नरः ॥ १०० ॥ तामिस्रं नरकं घोरमाप्नोत्येव न संशयः । नेत्राह्लादकरः स्वर्च्चिर्दूरतापविवर्जितः ॥ १०१ ॥ सशिखः शब्दरहितो निर्धूमो नातिह्रस्वकः । दीपवृक्षस्थिते पात्रे शुद्धस्नेहप्रपूरिते ॥ १०२ ॥ दक्षिणावर्तवर्त्या वै चारुदीप्तः प्रदीपकः । उत्तमः प्रोच्यते सोऽत्र त्रिपुराप्रीतिदायकः ॥ १०३ ॥ वृक्षेण वर्जिनो दीपो मध्यमः परिकीर्तितः । विहीनः पात्रतैलाभ्याम[ध्य?ध]मः परिकीर्तितः ॥ १०४ ॥ दीपमाला प्रकर्तव्या नैकदीपः कदाचन ।
- १ क पाठ । २ 'मलिन' क पाठ.।