गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 236, कुल 446 में से
संदर्भ में पढ़ेंपञ्चदशः पटलः । १५५ स्ना(त्वा?ता)नीतैः पर्युषितैर्याचितैः कृष्णवर्णकैः ॥ ८३ ॥ स्वयं विका(शि?सि)तर्मुक्तेः स्वयं च पतितैर्भुवि । नार्चयेत् कलिकाभिश्च विना चम्पकपङ्कजैः ॥ ८४ ॥ पुष्पं वा यदिवा पत्रं फलं नेष्टमधोमुखम् । दुःखदं तत् समाख्यातं यथोत्पन्नतथार्पणम् ॥ ८५ ॥ चित्रपूजासु सर्वासु न विरुद्धं न दूषणम् । अधोमुखापर्णं नेष्टं पुष्पाञ्जलिविधिं विना ॥ ८६ ॥ किंचातिबहुनोक्तेन सामान्येनेदमुच्यते । उक्ता(न्मु?नु)कैस्तथा पुष्पैर्जलजैः स्थलजैरपि ॥ ८७ ॥ पत्रैः सर्वैर्यथालाभं भक्तिमान् सततं यजेत् । पुष्पाभावे यजेत् पत्रैः पत्रालाभे च तत्फलैः ॥ ८८ ॥ अक्षतैर्वा जलैर्वापि न पूजां व्यतिलङ्घयेत् । एतेषामप्यलाभे तु मानसीं भक्तिमाश्रयेत् ॥ ८९ ॥ दह्यमानस्य काष्ठादेर्निस्तापो यस्य जायते । नासादिरन्ध्रसुखदः सगन्धोऽतिमनोहरः ॥ ६० ॥ स धूप इति विज्ञेयो देवीप्रीतिप्रदायकः । पत्रं मुस्तं नखं कुष्ठं जटा मांसी च शैलजम् ॥ ६१ ॥ सरलं देवकाष्ठं च जतु सर्जसचन्दनम् । कपिलाघृत-कर्पूर-शर्करागरुमिश्रितम् ॥ ६२ ॥ षोडशाङ्गो महाधूपः षोडशीप्रीतिदायकः । न भूमौ वितरेद् धूपं नासने कलशे नतु ॥ ६३ ॥ यथा तथाधारगतं कृत्वा तं तु निवेदयेत् । १ 'पुत्र' क पाठ ।