गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पञ्चदशः पटलः । १५५ स्ना(त्वा?ता)नीतैः पर्युषितैर्याचितैः कृष्णवर्णकैः ॥ ८३ ॥ स्वयं विका(शि?सि)तर्मुक्तेः स्वयं च पतितैर्भुवि । नार्चयेत् कलिकाभिश्च विना चम्पकपङ्कजैः ॥ ८४ ॥ पुष्पं वा यदिवा पत्रं फलं नेष्टमधोमुखम् । दुःखदं तत् समाख्यातं यथोत्पन्नतथार्पणम् ॥ ८५ ॥ चित्रपूजासु सर्वासु न विरुद्धं न दूषणम् । अधोमुखापर्णं नेष्टं पुष्पाञ्जलिविधिं विना ॥ ८६ ॥ किंचातिबहुनोक्तेन सामान्येनेदमुच्यते । उक्ता(न्मु?नु)कैस्तथा पुष्पैर्जलजैः स्थलजैरपि ॥ ८७ ॥ पत्रैः सर्वैर्यथालाभं भक्तिमान् सततं यजेत् । पुष्पाभावे यजेत् पत्रैः पत्रालाभे च तत्फलैः ॥ ८८ ॥ अक्षतैर्वा जलैर्वापि न पूजां व्यतिलङ्घयेत् । एतेषामप्यलाभे तु मानसीं भक्तिमाश्रयेत् ॥ ८९ ॥ दह्यमानस्य काष्ठादेर्निस्तापो यस्य जायते । नासादिरन्ध्रसुखदः सगन्धोऽतिमनोहरः ॥ ६० ॥ स धूप इति विज्ञेयो देवीप्रीतिप्रदायकः । पत्रं मुस्तं नखं कुष्ठं जटा मांसी च शैलजम् ॥ ६१ ॥ सरलं देवकाष्ठं च जतु सर्जसचन्दनम् । कपिलाघृत-कर्पूर-शर्करागरुमिश्रितम् ॥ ६२ ॥ षोडशाङ्गो महाधूपः षोडशीप्रीतिदायकः । न भूमौ वितरेद् धूपं नासने कलशे नतु ॥ ६३ ॥ यथा तथाधारगतं कृत्वा तं तु निवेदयेत् । १ 'पुत्र' क पाठ ।
१५६ गन्धर्वतन्त्रे । वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः ॥ ६४ ॥ आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् । अथ दीपं प्रवक्ष्यामि ज्योतिष्टोमफलप्रदम् ॥ ६५ ॥ घृतदीपस्तु प्रथमस्तिलतैलोद्भवस्ततः । सार्षपश्चाधमः प्रोक्तस्तदन्यो निन्दितः स्मृतः ॥ ६६ ॥ पद्मसूत्रभवा चाद्या कार्पाससंभवा परा । दर्भगर्भभवा चापि वर्तिका परिकीर्तिता ॥ ६७ ॥ को[ष?श]जं रोमजं वस्त्रं तूलं पर्युषितं तथा । वर्तिकार्थं न चादद्यात् साधको भूतिमिच्छुकः ॥ ६८ ॥ तैजसं पार्थिवं लौहं दीपपात्रं प्रशस्यते । दीपवृक्षाश्च कर्तव्यास्तैजसाद्याः पृथक् पृथक् ॥ ६६ ॥ वृक्षे दीपः प्रदातव्यो नतु भूमौ कदाचन । कुर्वन्तं पृथिवीतापं यो दीपमुत्सृजेन्नरः ॥ १०० ॥ तामिस्रं नरकं घोरमाप्नोत्येव न संशयः । नेत्राह्लादकरः स्वर्च्चिर्दूरतापविवर्जितः ॥ १०१ ॥ सशिखः शब्दरहितो निर्धूमो नातिह्रस्वकः । दीपवृक्षस्थिते पात्रे शुद्धस्नेहप्रपूरिते ॥ १०२ ॥ दक्षिणावर्तवर्त्या वै चारुदीप्तः प्रदीपकः । उत्तमः प्रोच्यते सोऽत्र त्रिपुराप्रीतिदायकः ॥ १०३ ॥ वृक्षेण वर्जिनो दीपो मध्यमः परिकीर्तितः । विहीनः पात्रतैलाभ्याम[ध्य?ध]मः परिकीर्तितः ॥ १०४ ॥ दीपमाला प्रकर्तव्या नैकदीपः कदाचन ।
- १ क पाठ । २ 'मलिन' क पाठ.।
पञ्चदशः पटलः । १५७ त्रयो दीपाः प्रदातव्याः पञ्च वा परमेश्वरि ॥ १०५ ॥ इतो न्यूनं न दातव्यं त्रिपुरायै कदाचन । नैव दीपः प्रदातव्यो विधूतः श्रीविवृद्धये ॥ १०६ ॥ न मिश्रीकृत्य दद्यात् तु दीपस्नेहान् घृतादिकान् । कृत्वा मिश्रीकृतस्नेहं रौरवं नरकं व्रजेत् ॥ १०७ ॥ नैव निर्वापयेद् दीपं देवार्थमपि कल्पितम् । दीपहर्ता भवे[द्व?द]न्धः का[नो?णो]निर्वापको भवेत् ।१०८। न तेन व्यवहारोऽपि कर्तव्यः साधकोत्तमैः । सूर्याचन्द्रमसोर्ज्योतिर्विद्यु[द?तोऽ]ग्रेस्तथैव च ॥ १०६ ॥ त्वमेव ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् । दीपं दक्षिणतो देव्याः पुरतो नतु वामतः ॥ ११० ॥ वामतस्तु तथा धूपमग्रे वा नतु दक्षिणे । निवेदयेत् पुरोभागे गन्धं पुष्पं च भूषणम् ॥ १११ ॥ नैवेद्यं दक्षिणे वामे पुरतो वा न पृष्ठतः । गात्रे दातुं च यद्योग्यं यन्त्रेष्वेव निवेदयेत् ॥ ११२ ॥ दद्याद्यथोग्यं पुरतो नैवेद्यं भोजनादिकम् । मदिरां पृष्ठतो दद्यादन्यपानं तु वामतः ॥ ११३ ॥ या विद्या चेह देवेशि श्रीविद्यायामनासवा । फलहीना समाख्याता साभिचाराय कल्पते ॥ ११४ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पूजोपचारतत्फलवर्णनं पञ्चदशः पटलः संपूर्णः ॥ १५ ॥ १_ 'बी' क पाठ ।
षोडशः पटलः ईश्वर उवाच इक्षुरसं समादाय पर्युषितं सुसंस्कृतम् । सहकाररसं तत्र निक्षिपेन्मधुना सह ॥ १ ॥ बादरं जाम्भवं चैव रसं खार्जूरमेव च । नारिकेलोद्भवं तत्र द्राक्षारसमनुत्तमम् ॥ २ ॥ मोहिनीफलजं चूर्णं जातीकोषरजस्तथा । कनकबीजचूर्णं च जातीफलसमुद्भवम् ॥ ३ ॥ त्रिजातं त्रिसुगन्धि च त्रिकटुं त्रिफलान्वितम् । तथान्येषां च द्रव्याणां सुगन्धीनां रजः शिवे ॥ ४ ॥ किंचित् किंचिच्च निक्षिप्य कर्पूरैरधिवासयेत् । स्वर्णे वा राजते पात्रे का(ट?च)पुटेऽथवा प्रिये ॥ ५ ॥ स्थापयित्वा सितां तत्र निक्षिपेत् परमेश्वरि । निक्षिप्य लोहितैर्देवि वस्त्रैराच्छाद्य यत्नतः ॥ ६ ॥ सप्तरात्रोषितं तत्तु जायते ह्यमृतोपमम् । चन्दनागुरुकर्पूरैर्धूपयित्वा निवेदयेत् ॥ ७ ॥ एषा सर्वोत्तमा प्रोक्ता देवीप्रियतमा सदा । मदिरेति समाख्याता परमानन्ददायिनी ॥ ८ ॥ एनां निवेद्य सुन्दर्यै सर्वसिद्धिमुपालभेत् । देवीलोके चिरं स्थित्वा ततो राजा क्षितौ भवेत् ॥ ६ ॥ १ 'श्रा' ख पाठः।
षोडशः पटलः । १५६ तत्रापि चानयाराध्यं कैवल्यं मुक्तिमाप्नुयात् । सविकल्पस्य देवेशि विहितैषा न चान्यथा ॥ १० ॥ निर्विकल्पस्य देवेशि सुरै(र?व)विहितागमे । अमृतं च तदेव स्यान्म(दां?द्यं)चापि तदेव हि ॥ ११ ॥ नापद्यपि द्विजो मद्यं दद्याद् देव्यै कदाचन । मोहाद्यदि ददेन्मद्यं ब्राह्मण्यदेव हीयते ॥ १२ ॥ ब्रह्मघाती स एव स्यात्तस्मान्मद्यं विवर्जयेत् । मद्यमेव पुरासेव्यमासीत् कमललोचने ॥ १३ ॥ पीत्वा मद्यं पुरा शुक्र आत्मानं चापि(विस्मृतः?व्यस्मरत्) । पीत्वा मत्तो निशानाथः पत्नीं तां जगृहे गुरोः ॥ १४ ॥ अतस्तेनापि मुनिना शापो दत्तः सुदारुणः । ब्रह्मा च मुनिभिः सार्धमिदमेव पुरा जगौ ॥ १५ ॥ महादेव्यै द्विजो मद्यं यो दद्याज्ज्ञानविह्वलः । पशुभावे स्थितो यश्च स महापातकी भवेत् ॥ १६ ॥ शेषयोर्विहितं मद्यं निर्विकल्पकयोः पुनः । नाद्यस्य विहितं तेन ब्रह्मघाती भवेच्च सः ॥ १७ ॥ तेनेदं पृथिवीक्षेत्रे वर्ज्यमासीत् सुलोचने । ज्ञानिनां सिद्धिदा चेयममृतत्वप्रदायिनी ॥ १८ ॥ ज्ञानेन संस्कृता चेयं महापातकनाशिनी । ब्रह्महत्या-सुरापान-स्वर्णस्तेयादिपातकान् ॥ १९ ॥ नाशयेत् पूजना(च्छेरि?द्देवि)निर्विकल्पो भवेद्यदि । १ 'क्या' क पाठ ।
३. पटल २१-३०: कुण्डलिनी-जागरण, षट्चक्र-भेदन एवं होम-विधान
१६० गन्धर्वतन्त्रे । निर्विकल्पो यदा मद्यं महादेव्यै निवेदयेत् ॥ २० ॥ अश्वमेधसहस्रस्य अंग्निष्टोमशतस्य च । राजसूयशतस्यापि फलमाप्नोत्यसंशयम् ॥ २१ ॥ अणिमाद्यष्टसिद्धीनां नायको जायतेऽचिरात् । सविकल्पो यदा देवि पापभाङ् नात्र संशयः ॥ २२ ॥ सुरे चानघधामासि स्वा(धा?हा)त्वं च दिवौकसाम् । स्वधा त्वं पितृमुख्यानां मनुष्याणां च सिद्धिदा ॥ २३ ॥ क्षीरा(ब्धि)मथने पूर्वमुद्धृता देवसंसदि । आनन्दभैरवी सार्धमानन्दभैरवेण तु ॥ २४ ॥ त्वयि प्र[सन्न? सादं]यातायां सिद्धिरेव न संशयः । विमुखी चेत्तदा तस्य कुलज्ञानविनाशिनी ॥ २५ ॥ प्रसन्ना खलु देवानां गन्धर्वाणां तथैव च । विमुखी त्वं च दैत्यानामसकृत् सर्वनाशिनी ॥ २६ ॥ त्वां(म?द्)द्यां व[द?र]दे देव्यै मयि चित्स्फुरणं कुरु । एवं स्तुत्वा सुरां देव्यै पूर्वोक्तेन च संस्कृताम् ॥ २७ ॥ त्रिपुरायै निवेद्यैव निग्रहानुग्रहक्षमः । चर्व्यं चोष्यं तथा लेह्यं पेयं चेति चतुर्विधम् ॥ २८ ॥ सर्वयज्ञमयं नित्यं नैवेद्यं सर्वतुष्टिदम् । ज्ञानदं कामदं पुण्यं बलारोग्यमयं तथा ॥ २९ ॥ नैवेद्येन लभेत् स्वर्गं नैवेद्येनामृतं भवेत् । धर्मार्थकाममोक्षाश्चँ नैवेद्येषु प्रतिष्ठिताँः ॥ ३० ॥ १ 'वह्निष्टो' क. पाठ । २ 'खने' क पाठ. । ३ 'रादूढ्यै' क पाठ । ४ 'तश्च' क पाठ' । ५ 'त 'क पाठ ।
षोडशः पटलः । १६१ तस्मात् सर्वप्रयत्नेन नैवेद्यं खलु दापयेत् । . मनसापि महादेव्यै नैवेद्यं दीयते यदि ॥ ३१ ॥ यो नरो भक्तिसंयुक्तो दीर्घायुः स सुखी भवेत् । हविः सुसंस्कृतं दिव्यमाज्ययुक्तं सशर्करम् ॥ ३२ ॥ शुद्धस्फटिकसंकाशं चन्द्रबिम्बसमप्रभम् । लसत्त(न्तु?ण्डु)लजं देवि चारुगन्धसहं मृदु ॥ ३३ ॥ सुगन्धिशा(द्वि?लि)जं चा(त्वं?रु) मधुमांससमन्वितम् । अपूपपायसं क्षीरमन्नं देव्याः प्रशस्यते ॥ ३४ ॥ बलिदानेषु विहिता य एव मृगपक्षिणः । तेषां मांसानि मत्स्यानि देयानि विविधानि च ॥ ३५ ॥ सर्वं सुरभिगन्धाढ्यं व्यञ्जनं सुमनोहरम् । यथा यथा भवेद्धद्यं यत्ने(द्रव्यं?देयं)तथा तथा ॥ ३६ ॥ संस्कृत्य वेशवाराद्यैर्महादेव्यै निवेदयेत् । यत्पूतिगन्धसंयुक्तं दग्धं भोगबहिष्कृतम् ॥ ३७ ॥ तदुक्तमपि(यो?न)दद्यात् त्रिपुरायै कदाचन । कालशाकं कलायं च पालकं चापि पोतिकाम् ॥ ३८ ॥ सार्षपं मूलकं चापि वास्तूकं च कलम्बिकाम् । शाकानेतान् महादेव्यै यो दद्याद्भक्तिसंयुतः ॥ ३६ ॥ सोऽतुलां श्रियमाप्नोति देवीलोके महीयते । माषमु(ग्द?द्र)मसूराद्यैर्व्यञ्जनं लवणान्वितम् ॥ ४० ॥ हिङ्गुजीरमरीचाद्यैरार्द्रकैश्चापि संस्कृतम् । १ 'यत्नात्' क पाठः । २ 'दुग्ध' क पाठः ।
१६२ गन्धर्वतन्त्रे । तिन्तिडीखण्डसंयुक्तं भक्तियुक्तो निवेद्य च ॥ ४१ ॥ ज्योतिष्टोमफलं लब्ध्वा देवीलोकमवाप्नुयात् । नानाविधानि पेयानि व्यञ्जनानि बहून्यपि ॥ ४२ ॥ क्षीरादीन्यथ गव्यानि माहिषाणि च सर्वशः आमिक्षां परमेशान्यै दधि चापि सशर्करम् ॥ ४३ ॥ पायसं शर्करापूपं कपिलाघृतसंयुतम् । पक्वान्नमतिमिष्टं च सिताकर्पूरसाधितम् ॥ ४४ ॥ शर्करालोलितान् कृत्वा वटकान् कुङ्कुमारुणान् । सशर्करं पक्वदुग्धं कदल्यादिफलान्वितम् ॥ ४५ ॥ सितोपदेशं मद्यं च स्वर्णपात्रे निवेदयेत् । अथवा रौप्यपात्रे च ताम्रपात्रेऽथवा पुनः ॥ ४६ ॥ अभावात् पद्मपत्रे वा अन्यथा नरकं व्रजेत् । आममन्नं महादेव्यै नैव दद्यात् कदाचन ॥ ४७ ॥ मन्त्रकालाविशुद्धानि नैवेद्यानि कदाचन देवेभ्यो नोपयुञ्जीत[गुरोर्वामे?पुरो वा स्व]हितेरतः॥ ४८॥ सितासंमिश्रितां दत्त्वा सुरां मधुसमन्विताम् । देवीलोके चिरं स्थित्वा कैवल्यं मुक्तिमाप्नुयात् ॥ ४६॥ आमिक्षया समं दत्त्वा सलिलं नारिकेलजम् । क्षीरा[द्य?ज्य]मधुकर्पूरसितादधिसमन्वितम् ॥ ५० ॥ त्रिजातत्रिकटूनां च लवङ्गेन द्वयोरपि । तथान्येषां च वस्तूनां चूर्णैर्गन्धवतीं शिवे ॥ ५१ ॥ साधयित्वा प्रकारेण वासि(त?तां) गन्धरेणुभिः ।
षोडशः पटलः । १६३ यस्तैजसेन पात्रेण पेयं देव्यै निवेदयेत् ॥ ५२.॥ भक्तिप्रवर्णांचितेन तस्य पुण्यफलं शृणु । कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ५३ ॥ स्थित्वा देवीपुरे श्रीमान् सार्वभौमो भवेत् क्षितौ । ततः परं तु कैवल्यमाप्नोति च यथेच्छया ॥ ५४॥ केवलं नारिकेलाम्बु दत्त्वा देव्यै महेश्वरि । अग्निष्टोमफलं लब्ध्वा नरलोके महीयते ॥ ५५॥ ग्राम्यारण्यैः फलैर्देवीं सकलैः परिपूजयेत् । बलिप्रियं च नैवेद्यं कशेरुकविषादिकम् ॥ ५६ ॥ ऋते श्लेष्मातकं बिल्वं शौनकं च विशेषतः । फलान्यनल्पपक्कानि निसर्गमधुराणि च ॥ ५७॥ सुपक्कानि सुगन्धीनि मनोहराणि यानि च । एवमेतानि शस्तानि नान्यानि शुभदानि च ॥ ५८ ॥ सौवर्णे राजते वापि ताम्रे वा प्रस्तरेऽपि च । पद्मपत्रेऽथवा दद्यान्नैवेद्यं त्रिपुराप्रियम् ॥ ५९ ॥ निराच्छादं समालोक्य भक्तिश्रद्धासमन्वितः । वायुबीजेन संशोष्य संदहेद्वह्निना तथा ॥ ६० ॥ वारुणेन [ख?सु]धावृ[त्या?ष्ट्या] प्लावयेद्धेनुमुद्रया । अस्त्रमन्त्रेण संरक्ष्य मूलेनैवाभिषिच्य तु ॥ ६१ ॥ मूलदेव्याः स्वनामान्ते नैवेद्यमिति चोच्चरेत् । गृहाण वह्निजायान्तो नैवेद्यमनुरीरितः ॥ ६२ ॥ १ 'द्याव' क पाठः । २ 'वह्नि' क. पाठ. ।
१६४ गन्धर्वतन्त्रे । अन्नं चतुर्विधं देवि रसैः षड्भिः समन्वितम् । मया निवेदितं भक्त्या तदिदं प्रतिगृह्यताम् ॥ ६३ ॥ लेह्यचोष्यानुपानादिभक्ष्य[तोह्या?भोज्या]नि यानि च । मयाहृतानि यत्नेन [रू?कृ]पया देवि भुज्यताम् ॥ ६४ ॥ जातीलवङ्गकक्कोलवासितं स्वर्धुनीजलम् । मुखवासकरं पुण्यं गृहीत्वाचाम सुन्दरि ॥ ६५ ॥ मूलमन्त्रेण देवेशि हुनेत् पञ्चाहुतीः क्रमात् । प्राणापानौ तथा व्यानमुदानं च समानकम् ॥ ६६ ॥ एतत्स्वरूपं जानीयादाहुतीनां च पञ्चकम् पञ्चाङ्गुलीभिरेव स्यात् क्रमात् पञ्चाहुतीः प्रिये ॥ ६७ ॥ पुनराचमनं दत्त्वा मुखवासं निवेदयेत् । ताम्बूलं गन्धसंयुक्तं कर्पूरादिसुवासितम् ॥ ६८ ॥ संस्कृत्य विविधैर्द्रव्यैर्गन्धवद्भिर्निवेदयेत् । स्तुवन् नानाविधैः स्तोत्रैर्भक्तिभावसमन्वितः ॥ ६६ ॥ प्रणमेत् परमेशानीं विधिना साधकोत्तमः । देवमानुषगन्धर्वा यक्षराक्षसपन्नगाः ॥ ७० ॥ नमस्कारेण तुष्यन्ति महात्मानः समन्ततः । नमस्कारेण लभते चतुर्वर्गं महोदयम् ॥ ७१ ॥ सर्वत्र सर्वसिद्ध्यर्थं नतिरेवं प्रशस्यते । नत्वा विजयते लोकान् नत्वा धर्मः प्रवर्तते ॥ ७२ ॥ नमस्कारेण दीर्घायुरच्छिन्ना लभते प्रजाः । १ 'नि' क पाठ । २ 'तिरेका प्रवर्तते' ख पाठ. ।
षोडशः पटलः । १६५ चतुर्वर्गं लभेद्रक्तो न चिरादेव साधकः ॥ ७३ ॥ नमस्कारो महायज्ञः प्रीतिदः सर्वतः सदा । नमस्कुरु महादेवीं प्रदक्षिणां च भक्तितः ॥ ७४ ॥ मनसापि महादेव्या यो भक्त्या कुरुते नतिम् । सोऽपि लोकान् विनिर्जित्य देवीलोके महीयते ॥ ७५ ॥ कायिको वाग्भवश्चैव मानसस्त्रिविधः स्मृतः । नमस्काराश्च विज्ञेया उत्तमाधममध्यमाः ॥ ७६ ॥ कायिकैस्तु नमस्कारैर्देवास्तुष्यन्ति सर्वतः । नमस्कारेषु सर्वेषु कायिकः प्रथमः स्मृतः ॥ ७७ ॥ जानुभ्यामवनीं गत्वा संस्पृश्य शिरसा क्षि[त?ति]म् । क्रियते यो नमस्कारः स एव कायिकः स्मृतैः ॥ ७८ ॥ पुटीकृत्य करौ शीर्षे नमस्कारः प्रदीयते । अस्पृष्ट्वा जानुशीर्षाभ्यां क्षितिं सोऽधम उच्यते ॥ ७६ ॥ जानुभ्यां क्षितिमस्पृष्ट्वा शिरसास्पृश्य मेदिनीम् । क्रियते यो नमस्कारो मध्यमः कायिकस्तु सः ॥ ८० ॥ पौराणिकैस्तान्त्रिकैर्वा मूलमन्त्रेण वा पुनः । प्रदक्षिणां प्रणामं च कुर्याद्धर्मार्थसाधनम् ॥ ८१ ॥ प्रसार्य दक्षिणां हस्तं स्वयं नम्रशिराः पुनः । दक्षिणां दर्शयन् पार्श्वं भक्तिश्रद्धासमन्वितः ॥ ८२ ॥ सकृत् प्रदक्षिणां कृत्वा वर्तुलाकृति साधकः । स च प्रदक्षिणो ज्ञेयः सर्वदेवौघतुष्टिदः ॥ ८३ ॥ १ 'सर्वदा' ख पाठः । २ 'प्रोच्यते कायिकस्तु स' ख पाठः । ३ 'रु' ख पाठः ।
१६६ गन्धर्वतन्त्रे । अष्टोत्तरशतं यस्तु देव्याः कुर्यात् प्रदक्षिणम् । स सर्वकामानासाद्य पश्चान्मोक्षमवाप्नुयात् ॥ ८४॥ त्रिकोणमथ षट्कोणमर्धचन्द्रं प्रदक्षिणम् । दण्डमष्टाङ्गमुग्रं च सप्तधा नतिलक्षणम् ॥ ८५॥ दक्षिणाद्वायवीं गत्वा दिशं तस्माच्च शांभवीम् । ततोऽपि दक्षिणां [द?ग]त्वा नमस्कारस्त्रिकोणवत्॥ ८६॥ त्रिकोणाख्यो नमस्कारस्त्रिपुराप्रीतिदायकः । दक्षिणाद्वायवीं गत्वा वायव्याः शांभवीं तथा ॥ ८७॥ ततोऽपि दक्षिणां गत्वा तां त्यक्त्वाग्नौ प्रविश्य च । अग्नितो राक्षसीं गत्वा कौबेरीं च ततो विशेत् ॥८८॥ आग्नेयीं च ततो गत्वा नमस्कारः प्रकीर्तितः । षट्कोणाख्यो नमस्कारो दुर्गायाः प्रीतिदायकः ॥८६॥ दक्षिणाद्वायवीं गत्वा तस्माद्भावृत्य दक्षिणम् । गत्वा योऽसौ नमस्कारः सोऽर्धचन्द्रो मम प्रियः ॥६०॥ नमस्कारेषु जानीयादासां प्राकृतमाद्रिजे । त्यक्त्वा स्वमासनस्थानं पश्चाद्गत्वा नमस्कृतः ॥६१॥ निपत्य दण्डवद् भूमौ निपत्य हृदयेन च । तथैव दण्डवद् भूमौ दण्ड इत्युच्यते बुधैः ॥६२॥ चिबुकेन मुखेनाथ नासया हनुकेन च । चक्षुषा वाथ कर्णाभ्यां ब्रह्मरन्ध्रेण चैव हि ॥६३॥ तदष्टाङ्गमिति प्रोक्तं यद्भूमिं स्पृशते क्रमात् ।
१ 'ममा' ख पाठ ।
षोडशः पटलः । १६७ ब्रह्मरन्ध्रेण संस्पर्शः द्वितेर्यस्या नमस्कृतेः ॥ ६४ ॥ स उग्र इति विज्ञेयो विष्णोस्तुष्टिप्रदायकः । यत् स्वयं गद्यपद्याभ्यां [ग?घ]टिताभ्यां नमस्कृतिः ॥ ६५ ॥ क्रियते भक्तियुक्तेन वाचिकस्तूत्तमः स्मृतः । पौराणिकैर्वैदिकैर्वा तान्त्रिकैः क्रियते नतिः ॥ ६६ ॥ स मध्यमो नमस्कारो भवेद्वाचनिकैः सदा । परेषां गद्यपद्याभ्यां नमस्कारो यदा भवेत् ॥ ६७ ॥ स वाचिकोऽधमो ज्ञेयो नमस्कारेषु सर्वतः । इष्ट[धामा?मध्या]निष्ठगतैर्मनोभिस्त्रिविधं भवेत् ॥ ६८ ॥ नमनं मानसं प्रोक्तमुत्तमाधममध्यमम् । त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः ॥ ६६ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे उपचारफलविधिनिरूपणं षोडशः पटलः ॥ १६ ॥
१ 'यास्त्व' ख पाठः । २ 'दाचारत ' ख पाठः ।
सप्तदशः पटलः । ꕤ श्रीदेव्युवाच प्रकटायः कथं देव पूज्यन्ते परमेश्वर । तत् सर्वं कथयेशान मुद्राविरचनं तथा ॥ १॥ ईश्वर उवाच तास्तु प्रपूजयेद्भक्त्या सृष्टिस्थितिलयक्रमैः । मोहनं क्षोभणं चक्रं दक्षावर्तक्रमाद्यजेत् ॥ २॥ वामावर्तक्रमेणैव शेषचक्राणि पूजयेत् । आरभ्य पश्चिमाद् देवि वायव्यन्तं समापयेत् ॥ ३॥ रश्मिवृन्दानि ते देवि पूजयामि विधानतः । आज्ञापय जगन्मातर्यत[स्त?स्त्व]मेव तानि[व?च] ॥ ४ ॥ कृताञ्जलिर्महेशानि देव्याज्ञां साधकोत्तमः । गृहीत्वा पूजयेत् तुष्टैः प्रागुक्तक्रमयोगतः ॥ ५॥ पूजावरणशक्तीनां गन्धपुष्पाद्भिरर्चतैः । ज्ञानमुद्रान्वितैर्देवि तर्पणं तत्त्वमुद्रया ॥ ६॥ (१)महायोगीश्वरं देवं योगिनं करुणामयम् । वारुणं पूर्वमुद्धृत्य दक्षकर्णेन्दुभूषितम् ॥ ७॥ बुद्धाय नम इत्युक्त्वा पूजयेज्जगदीश्वरम् । पश्चिमादिचतुर्दिक्षु पूजयेद(नि?णि)मादिका ॥ ८॥ वायव्यादिषु कोणेषु वशित्वप्रमुख[न्?खाः]यजेत् । प्राप्तिसिद्धिमधोभागे सर्वकामां तथोर्ध्वके ॥ ६॥
१ 'ष्टो' क. पाठ । २ 'मा' क पाठ. ।
सप्तदशः पटलः । १६६ मायालक्ष्मीसमायोगं कृत्वा पूर्वं महेश्वरि । तथैव सिद्धिशब्दान्ते श्रीपादुकां ततो वदेत् १॥ १० ॥ पूजयामीति मनुना पूजयेदुक्तमार्गतः । तथा द्वितीयरेखायां ब्रह्माण्याद्याः प्रपूजयेत् ॥ ११ ॥ असिताङ्गं रुरुं चैव चण्डं क्रोधं तथैव च । उन्मत्तं च तथा देवि भैरवं च कपालिनम् ॥ १२ ॥ भीषणं चैव संहारं ताभिः सह प्रपूजयेत् । सर्वसंक्षोभिणीमुख्यास्तथा तृतीयरेखगाः ॥ १३ ॥ करशुद्धिकरीं पूर्वे पूजयेच्चक्रनायिकाम् । दक्षिणे पूजयेद् देव्या मुद्रा संक्षोभकारिणीम् ॥ १४ ॥ अ[नि?ग्णि]मां पूजयेद्वामे बुद्धं तस्याः पुरः पुनः । मध्यमे मध्यतः कृत्वा कनिष्ठेऽङ्गुष्ठ[बो?रो]धिते ॥ १५ ॥ तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके । एषा तु प्रथमा मुद्रा सर्वसंक्षोभकारिणी ॥ १६ ॥ (खा?था)न्तं ॐ वह्निसमारूढं द्वितीयस्वरभूषितम् । नादबिन्दुकलायुक्तं बीजं तस्याः प्रकीर्तितम् ॥ १७ ॥ आदाय दक्षहस्तेन विशेषार्घ्योदकं ततः । बीजद्वयं समाभाष्य तथैताः प्रकटास्ततः ॥ १८ ॥ योगिन्यश्च समुद्राश्च ससिद्धयश्च सायुधाः । तथा सपरिवाराश्च सर्वोपचारकैस्तथा ॥ १६ ॥ त्रैलोक्यमोहने चक्रे त्रिपुराधिष्ठिते तथा । १ 'रीपूर्वां' क. पाठ । ॐ थान्तमित्यादिना द्रीं इति बीजोद्धारः कृतः ।
१७० गन्धर्वतन्त्रे । पूजितास्तर्पिताः सन्तु देव्या हस्ते निवेदयेत् ॥ २० ॥ एवमखिलचक्रस्थयोगिनीनां महौजसाम् । यथाव[दह?दुक्त]वाक्येन चक्रपूजां निवेदयेत् ॥ २१ ॥ (१) मायालक्ष्मीकलाभिस्ता नित्याः कलाः प्रपूजयेत् । ब्रह्मा कमण्डलुधरश्चतुर्वक्त्रश्चतुर्भुजः ॥ २२ ॥ राजहंससमासीनः प्रांशुस्तुङ्गांसे उन्नतः । सावित्री वामपार्श्वस्था दक्षिणे च सरस्वती ॥ २३ ॥ सर्वे देवाः स्थितास्त्वग्रे वेदाः सर्वेऽग्रतः स्थिताः । वर्णेन रक्तगौराङ्गो जपमा[न?ला]लसत्करः ॥ २४ ॥ वराभयप्रदो देवः सर्वलोकपितामहः । प्रणवं पूर्वमुद्धृत्य ब्रह्मणे नम आलिखेत् ॥ २५ ॥ अनेन मनुना देवि ब्रह्माणं परिपूजयेत् । बालया योजितां कृत्वा पूजयेच्चक्रनायिकाम् ॥ २६ ॥ दर्शयेद(भा?द्रा)विणीं मुद्रां तत्तद्बीजपुरस्कृताम् । (खा?था)न्तं * वह्निसमारूढं तुर्यस्वरविभूषितम् ॥ २७ ॥ नादबिन्दुकलायुक्तं द्राविणीबीजमुत्तमम् । सर्वसंक्षोभमुद्राया मध्यमे स[त्र?र]ले यदा ॥ २८ ॥ क्रियेते परमेशानि सर्वविद्राविणी तदा । (३) शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्रिलोचनम् ॥ २९ ॥ व्याघ्रचर्मस्थिते पद्मे पद्मासनगतं सदा । संश्लिष्यन्तमुमां देवीं चामरोत्पलधारिणीम् ॥ ३० ॥ १ 'श' क पाठ । * थान्तमित्यादिना द्री इति द्राविणीमुद्राया बीजोद्धारः ।
सप्तदशः पटलः । १७१ द्विभुजां स्वर्णगौराङ्गीं सौम्यातिसौम्यरूपिणीम् । लीलारविन्दं [रा?वा]मे [णा?न] पाणिना बिभ्रतीं सदा ॥ ३१ ॥ शुक्लं तु चामरं [द?धृ]त्वा शिवस्याङ्केऽथ दक्षिणे । विन्यस्य दक्षिगं हस्तं तिष्ठन्तीं परिचिन्तयेत् ॥ ३२ ॥ त्रैलोक्यजननीं देवीं त्रैलोक्यजनकं शिवम् । उमामहेश्वरं ध्यात्वा मोहयेज्जगतीमिमाम् ॥ ३३ ॥ कामं शक्रं तथाकाशं तुरीयमनुभूषितम् । नादबिन्दुकलायुक्तं द्वयं बीजं तयोः क्रमात् ॥ ३४ ॥ उमा ङेन्ता तथा ङेन्तो महेश्वरो हृद[म्वि?न्वि]तः । मन्त्रराजः समाख्यातश्चतुर्वर्गफलप्रदः ॥ ३५ ॥ अनेन तौ समभ्यर्च्य सर्वसंक्षोभके ततः । अनङ्गकुसुमां पूर्वे कवर्गेणैव पूजयेत् ॥ ३६ ॥ चवर्गेण च देवेशि दक्षिणेऽनङ्गमेखलाम् । अनङ्गमदनां देवि टवर्गेण च पश्चिमे ॥ ३७ ॥ तवर्गेणोत्तरे भागे पूजयेन्मदनातुराम् । तथैवानङ्गरे[खासु?खां तु] पवर्गेण हुताशने ॥ ३८ ॥ यवर्गेण च देवेशि नैर्ऋतेऽनङ्गवेगिनी(म्) । शववर्गेण च वायव्येऽनङ्गाङ्कुशां च पूजयेत् ॥ ३६ ॥ ळक्षाभ्यां परमेशानि ईशे चानङ्गमालिनीम् । प्रोक्तस्थाने समावाह्य पूजयेच्चक्रनायिकाम् ॥ ४० ॥ कामबीजं पुरस्कृत्य मुद्रां संदर्शयेत् ततः । १ 'न्ती' क पाठः । २ 'शत्रु' क पाठ । ३ 'न्तोत' क पाठ ।
१७२ गन्धर्वतन्त्रे । मध्यमानामिकाभ्यां तु कनिष्ठनामिके समे ॥ ४१ ॥ अङ्कुशाकाररूपाभ्यां मध्यमे परमेश्वरि । इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षकारिणी ॥ ४२ ॥ [४] सर्वसौभाग्यदे चक्रे भास्करं परिचिन्तयेत् । पद्मरागप्रतीकाशं किरीटाङ्गदभूषणम् ॥ ४३ ॥ पद्मासनसमासीनं स्वशक्त्यालिङ्गितं विभुम् । दधानं बाहुभिर्देवं रक्तपद्मे वराभयौ ॥ ४४ ॥ प्रागुक्तेन तु मन्त्रेण भास्करं परिपूजयेत् । संप्रदायाः प्रपूज्यैव पूजयेच्चक्रनायिकाम् ॥ ४५ ॥ वारुणं ❁ चेन्द्रबीजस्थं [दक्ष?वाम]कर्णविभूषितम् । नादबिन्दुकलायुक्तं बीजं वश्यकरं महत् ॥ ४६ ॥ पुटाकारौ करौ कृत्वा तर्जन्यङ्कुशरूपिणी । परिवर्तक्रमेणैव मध्यमे तदधोगते ॥ ४७ ॥ क्रमेण देवि तेनैव कनिष्ठानामिके अपि । संयोज्य निविडाः कार्याः सर्वा अङ्गुष्ठदेशतः ॥ ४८ ॥ मुद्रैषा परमेशानि सर्ववश्यकरी मता । (५) सर्वार्थसाधके चक्रे बाह्ये दशारके ततः ॥ ४६ ॥ मणिमयम(हृद्?हा)रत्नपङ्कजेऽतिमनोहरे । पीठे तस्मिंस्त्रिविष्टपस्य प्रद्योतनशतद्युतेः ॥ ५० ॥ तप्तकाञ्चनवर्णा[भावनतो?भवैनते]यस्य पार्वति । आसीनमुन्नतांसे च विष्णुं विद्रुमसंनिभम् ॥ ५१ ॥ १ 'प्लव' क पाठ । २ 'वार' ख पाठ. । * वश्यमुद्राया बीजमुद्धरति वारुणमिति ब्लूँ इति ।
सप्तदशः पटलः । १७३ स्वामोरुगतां पद्मां श्लिष्यन्तमरुणेक्षणम् । पीतवस्त्रपरीधानं (च?स)सितं चारुभूषणम् ॥ ५२ ॥ शङ्खचक्रगदापद्मं दधानं बाहुभिः सदा । चिन्तयित्वा महेशानि पूजयेज्जगदीश्वरम् ॥ ५३ ॥ मन्त्रम(स्याः?स्य)प्रवक्ष्यामि चतुर्वर्गप्रदायकम् । कामबीजं समुद्धृत्य हृषीकेशमतः परम् ॥ ५४ ॥ ङेन्तं च नतिसंयुक्तमनेन तं प्रपूजयेत् । कुलकौलाः प्रपूज्यैव पूजयेच्चक्रनायिकाम् ॥ ५५ ॥ सर्वोन्मादकरीं मुद्रां दर्शयेद्वीजपूर्वकाम् । ससर्गो❄ भृगुरेत्तस्या बीजमेतदुदाहृतम् ॥ ५६ ॥ संमुखौ तु करौ कृत्वा मध्यमामध्यगेऽन्त्यजे । अनामिके तु सरले तद्वहिस्तर्जनीद्वयम् ॥ ५७ ॥ दण्डाकारौ ततोऽङ्गुष्ठौ मध्यमानखदेशगौ । मुद्रैषोन्मादिनी नाम्ना क्लेदिनी सर्वयोषिताम् ॥ ५८ ॥ [६]सर्वरत्नाकरे चक्रे तथान्तर्दशकोणके । त्रैलोक्यमोहनं विष्णुं ध्यायेद्बन्धूकसंनिभम् ॥ ५९ ॥ ज(वा?पा)कुसुमसंकाशं दाडिमीकुसुमप्रभम् । उद्यदादित्यसंकाशं रत्नसिंहासनेऽम्बुजे ॥ ६० ॥ पद्मासनसमासीनं भुजैश्चतुर्भिरायतैः । पाशाङ्कुशौ च दधतं पुष्पबाणेक्षुकार्मुकम् ॥ ६१ ॥
१ 'रीम्' क पाठ. । २ 'मे मध्यमे' यजेत्' क पाठः ।
- भृगु स ससर्गो विसर्गसहित । इति सर्व्वोन्मादिनीबीजोद्धारः ।
१७४ गन्धर्वतन्त्रे । अरुणायतलोलाक्षियुगलं मदघूर्णितम् । सर्वशृङ्गारवेषाढ्यं किरीटाङ्गदभूषितम् ॥ ६२ ॥ रक्तमालाम्बरधरं रक्तगन्धानुलेपिनम् । स्ववामोरुगतां शक्तिं श्लिष्यन्तीं दक्षपाणिना ॥ ६३ ॥ बामेन पाणिना पद्मं धारयन्तीं शुचिस्मिताम् । रुचिराङ्गदभूषाढ्यां शुद्धक्षोमविराजिताम् ॥ ६४ ॥ मदनोत्तप्तहृदयां क्लिन्नयोनिं परेश्वरीम् । कलाकलितम(ा)धु(रां?यां)तरुणीं यौवनान्विताम् ॥ ६५॥ सकार्मुकभुजेनैव श्लिष्यन्तं सुदृढं तथा । त[र्ज?ज्ज]नितपरानन्दनन्दितं परमेश्वरम् ॥ ६६ ॥ नागगन्धर्वदेवाना मङ्ग[ला?ना]भिः समावृतम् । मदनोल्लालिताङ्गाभिर्भूषिताभिर्विभूषणैः ॥ ६७ ॥ आत्म[१]भेदेन यो ध्यायेद् देवदेवं जगद्गुरुम् । त्रैलोक्यमोहनं विष्णुं त्रैलोक्यमोहनो भवेत् ॥ ६८ ॥ बीजमस्य प्रवक्ष्यामि लक्ष्मीनारायणात्मकम् । ☸ब्रह्मा पुरन्दरः पश्चान्मायास्वरमतः परम् ॥ ६६ ॥ नादबिन्दुकलायुक्तं बीजं त्रैलोक्यपूजितम् । श्रुतिषु मथितसारं देवताकण्ट[हारकं?कारिं] त्रिभुवनव[शंकरी?शकारं]श्रीधनाथर्थका[रकं?रम्] शमनभयविनाशं सर्वशङ्काप्रणाशं भवजलधिविशोषं मानसा[न्ध?न्ध्य]प्रकाशम् § * ब्रह्मा क पुरन्दरो ल मायास्वर ई नादाद्युपेत तेन क्लीं इति । § इदं पद्य प्रक्षिप्तमिति प्रतिभाति ।