गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 245, कुल 446 में से
संदर्भ में पढ़ें१६४ गन्धर्वतन्त्रे । अन्नं चतुर्विधं देवि रसैः षड्भिः समन्वितम् । मया निवेदितं भक्त्या तदिदं प्रतिगृह्यताम् ॥ ६३ ॥ लेह्यचोष्यानुपानादिभक्ष्य[तोह्या?भोज्या]नि यानि च । मयाहृतानि यत्नेन [रू?कृ]पया देवि भुज्यताम् ॥ ६४ ॥ जातीलवङ्गकक्कोलवासितं स्वर्धुनीजलम् । मुखवासकरं पुण्यं गृहीत्वाचाम सुन्दरि ॥ ६५ ॥ मूलमन्त्रेण देवेशि हुनेत् पञ्चाहुतीः क्रमात् । प्राणापानौ तथा व्यानमुदानं च समानकम् ॥ ६६ ॥ एतत्स्वरूपं जानीयादाहुतीनां च पञ्चकम् पञ्चाङ्गुलीभिरेव स्यात् क्रमात् पञ्चाहुतीः प्रिये ॥ ६७ ॥ पुनराचमनं दत्त्वा मुखवासं निवेदयेत् । ताम्बूलं गन्धसंयुक्तं कर्पूरादिसुवासितम् ॥ ६८ ॥ संस्कृत्य विविधैर्द्रव्यैर्गन्धवद्भिर्निवेदयेत् । स्तुवन् नानाविधैः स्तोत्रैर्भक्तिभावसमन्वितः ॥ ६६ ॥ प्रणमेत् परमेशानीं विधिना साधकोत्तमः । देवमानुषगन्धर्वा यक्षराक्षसपन्नगाः ॥ ७० ॥ नमस्कारेण तुष्यन्ति महात्मानः समन्ततः । नमस्कारेण लभते चतुर्वर्गं महोदयम् ॥ ७१ ॥ सर्वत्र सर्वसिद्ध्यर्थं नतिरेवं प्रशस्यते । नत्वा विजयते लोकान् नत्वा धर्मः प्रवर्तते ॥ ७२ ॥ नमस्कारेण दीर्घायुरच्छिन्ना लभते प्रजाः । १ 'नि' क पाठ । २ 'तिरेका प्रवर्तते' ख पाठ. ।