गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 244, कुल 446 में से
संदर्भ में पढ़ेंषोडशः पटलः । १६३ यस्तैजसेन पात्रेण पेयं देव्यै निवेदयेत् ॥ ५२.॥ भक्तिप्रवर्णांचितेन तस्य पुण्यफलं शृणु । कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ५३ ॥ स्थित्वा देवीपुरे श्रीमान् सार्वभौमो भवेत् क्षितौ । ततः परं तु कैवल्यमाप्नोति च यथेच्छया ॥ ५४॥ केवलं नारिकेलाम्बु दत्त्वा देव्यै महेश्वरि । अग्निष्टोमफलं लब्ध्वा नरलोके महीयते ॥ ५५॥ ग्राम्यारण्यैः फलैर्देवीं सकलैः परिपूजयेत् । बलिप्रियं च नैवेद्यं कशेरुकविषादिकम् ॥ ५६ ॥ ऋते श्लेष्मातकं बिल्वं शौनकं च विशेषतः । फलान्यनल्पपक्कानि निसर्गमधुराणि च ॥ ५७॥ सुपक्कानि सुगन्धीनि मनोहराणि यानि च । एवमेतानि शस्तानि नान्यानि शुभदानि च ॥ ५८ ॥ सौवर्णे राजते वापि ताम्रे वा प्रस्तरेऽपि च । पद्मपत्रेऽथवा दद्यान्नैवेद्यं त्रिपुराप्रियम् ॥ ५९ ॥ निराच्छादं समालोक्य भक्तिश्रद्धासमन्वितः । वायुबीजेन संशोष्य संदहेद्वह्निना तथा ॥ ६० ॥ वारुणेन [ख?सु]धावृ[त्या?ष्ट्या] प्लावयेद्धेनुमुद्रया । अस्त्रमन्त्रेण संरक्ष्य मूलेनैवाभिषिच्य तु ॥ ६१ ॥ मूलदेव्याः स्वनामान्ते नैवेद्यमिति चोच्चरेत् । गृहाण वह्निजायान्तो नैवेद्यमनुरीरितः ॥ ६२ ॥ १ 'द्याव' क पाठः । २ 'वह्नि' क. पाठ. ।