गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 255, कुल 446 में से
संदर्भ में पढ़ें१७४ गन्धर्वतन्त्रे । अरुणायतलोलाक्षियुगलं मदघूर्णितम् । सर्वशृङ्गारवेषाढ्यं किरीटाङ्गदभूषितम् ॥ ६२ ॥ रक्तमालाम्बरधरं रक्तगन्धानुलेपिनम् । स्ववामोरुगतां शक्तिं श्लिष्यन्तीं दक्षपाणिना ॥ ६३ ॥ बामेन पाणिना पद्मं धारयन्तीं शुचिस्मिताम् । रुचिराङ्गदभूषाढ्यां शुद्धक्षोमविराजिताम् ॥ ६४ ॥ मदनोत्तप्तहृदयां क्लिन्नयोनिं परेश्वरीम् । कलाकलितम(ा)धु(रां?यां)तरुणीं यौवनान्विताम् ॥ ६५॥ सकार्मुकभुजेनैव श्लिष्यन्तं सुदृढं तथा । त[र्ज?ज्ज]नितपरानन्दनन्दितं परमेश्वरम् ॥ ६६ ॥ नागगन्धर्वदेवाना मङ्ग[ला?ना]भिः समावृतम् । मदनोल्लालिताङ्गाभिर्भूषिताभिर्विभूषणैः ॥ ६७ ॥ आत्म[१]भेदेन यो ध्यायेद् देवदेवं जगद्गुरुम् । त्रैलोक्यमोहनं विष्णुं त्रैलोक्यमोहनो भवेत् ॥ ६८ ॥ बीजमस्य प्रवक्ष्यामि लक्ष्मीनारायणात्मकम् । ☸ब्रह्मा पुरन्दरः पश्चान्मायास्वरमतः परम् ॥ ६६ ॥ नादबिन्दुकलायुक्तं बीजं त्रैलोक्यपूजितम् । श्रुतिषु मथितसारं देवताकण्ट[हारकं?कारिं] त्रिभुवनव[शंकरी?शकारं]श्रीधनाथर्थका[रकं?रम्] शमनभयविनाशं सर्वशङ्काप्रणाशं भवजलधिविशोषं मानसा[न्ध?न्ध्य]प्रकाशम् § * ब्रह्मा क पुरन्दरो ल मायास्वर ई नादाद्युपेत तेन क्लीं इति । § इदं पद्य प्रक्षिप्तमिति प्रतिभाति ।