भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 256, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 256

सप्तदशः पटलः । १७५ अनेन तं समभ्यर्च्य निग(र्व?र्भ)योगि(नीं?नीः)यजेत् ॥७०॥ नायिकां तत्र संपूज्य मुद्रां संदर्शयेत् तथा। तं[स्माद्?स्यास्त्य]नामिकायुग्ममधः कृत्वाऽङ्कुशाकृति । ७१। तर्जन्‍यावपि तेनैव क्रमेन विनियोजयेत् । इयं महाङ्कुशा मुद्रा सर्वकार्यार्थसाधिका ॥ ७२ ॥ *कामदेवोऽग्निमारूढो बिन्दुनादकलान्वितः । त्रयोदशस्वरोपेतो मुद्राबीजमितीरितम् ॥ ७३ ॥ [७]अष्टकोणे महेशानि रहस्ययोगिनीर्यजेत् । वशिनीप्रमुखाः सर्वाः पूर्ववद्बीजसंयुताः ॥ ७४ ॥ पादुकां पूजयामीति न्यासादेव विशेषतः । चक्रेश्वरीं यजेच्छक्तिं (भ?भु)क्तिसिद्धिं च वामतः ॥ ७५ ॥ त(दङ्के?द्वत्ते)खेचरीमुद्रां तां च संदर्शयेत् ततः । सव्यं दक्षिणदेशे तु दक्षिणं वामदेशतः ॥ ७६ ॥ बाहुं कृत्वा महेशानि हस्तौ संपरिवर्त्य च । कनिष्ठानामिके देवि यु(क्ता?क्त्वा)तेन क्रमेण तु ॥ ७७॥ तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे । अङ्गुष्ठौ च महेशानि कारयेत् सरलाविह ॥ ७८ ॥ इयं सा खेचरी मुद्रा नाम्ना सर्वोत्तमा प्रिये । रचितेयं महामुद्रा सर्वतेजोपहारिणी ॥ ७९ ॥ ‡शिवं चन्द्रं तथा कान्तं पान्तं वह्निसमन्वितम् । १ 'अस्या' क पाठ । २ 'ज्ञानात्मिका' क पाठ । * रेफारूढ कामदेव-क । योदश स्वर, तेन क्रो इति । ‡ शिव ह चन्द्र स कान्त ख पान्त फ वह्नि रेफ, एकादश. स्वर ए र्ध्वन् नादकलादियुत, तेन हसख्फ्रें इति खेचरीविद्या ।