भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 257, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 257

१७६ गन्धर्वतन्त्रे । एकादशस्वरोपेतं बीजं तस्याः प्रकीर्तितम् ॥ ८० ॥ (८)मध्यत्रिकोणचक्रे च अग्रदक्षोत्तरे शिवे । ता एव पूजयेद्देवि विन्यासोक्तविधानतः ॥ ८१ ॥ पादुकां पूजयामीति विशेषोऽत्र प्रकाशितः । त्रिपुरा[पां?म्बां]तु चक्रेशीमिच्छासिद्धिं च वामतः ॥ ८२ ॥ परिवर्त्य करौ स्पृष्टावर्धचन्द्राकृती प्रिये । तर्जन्यङ्गुष्ठयुगलं युगपत् कारयेत् ततः ॥ ८३ ॥ अधः कनिष्ठाष्वष्ठधे मध्यमे विनियोजयेत् । तथैव कुटिले योज्ये सर्वाधस्तादनामिके ॥ ८४ ॥ बीजमुद्रेयमाख्याता परा त्रैलोक्यमातृका । सदाशिवस्य बीजाढ्या† दर्शयित्वा विधानतः ॥ ८५ ॥ [६]सर्वानन्दमये चक्रे ब्रह्मविष्ण्वीशरूपिणीम् । पूजयित्वा विधानेन चक्रेशीमपि भैरवीम् ॥ ८६ ॥ ज्ञानेच्छादिक्रियारूपां मोक्षसिद्धिं च वामतः । सिंहं च पुरतो देव्या जगदाधारमर्चितम् ॥ ८७ ॥ पूजयेत् सततं भक्त्या पश्यन्तमम्बिकामुखम् । वाग्बीजं पूर्वमुद्धृत्य योनिमुद्रां प्रदर्शयेत् ॥ ८८ ॥ अनामिकायुगं देवि परिवर्तनयोगतः । अङ्कुशाकाररूपाभ्यां तर्जनीभ्यां तु धारयेत् ॥ ८९ ॥ मध्यमे कुरु तन्मध्ये कनिष्ठिके तथाविधे । दण्डाकारौ ततोऽङ्गुष्ठौ कनिष्ठोपरिसंस्थितौ ॥ ९० ॥


  • 'त्र' क. पाठ. । † ह्रौं इति सदाशिवबीजम् ।
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक) · पृष्ठ 257, कुल 446 में से · BharatKosha