गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 254, कुल 446 में से
संदर्भ में पढ़ेंसप्तदशः पटलः । १७३ स्वामोरुगतां पद्मां श्लिष्यन्तमरुणेक्षणम् । पीतवस्त्रपरीधानं (च?स)सितं चारुभूषणम् ॥ ५२ ॥ शङ्खचक्रगदापद्मं दधानं बाहुभिः सदा । चिन्तयित्वा महेशानि पूजयेज्जगदीश्वरम् ॥ ५३ ॥ मन्त्रम(स्याः?स्य)प्रवक्ष्यामि चतुर्वर्गप्रदायकम् । कामबीजं समुद्धृत्य हृषीकेशमतः परम् ॥ ५४ ॥ ङेन्तं च नतिसंयुक्तमनेन तं प्रपूजयेत् । कुलकौलाः प्रपूज्यैव पूजयेच्चक्रनायिकाम् ॥ ५५ ॥ सर्वोन्मादकरीं मुद्रां दर्शयेद्वीजपूर्वकाम् । ससर्गो❄ भृगुरेत्तस्या बीजमेतदुदाहृतम् ॥ ५६ ॥ संमुखौ तु करौ कृत्वा मध्यमामध्यगेऽन्त्यजे । अनामिके तु सरले तद्वहिस्तर्जनीद्वयम् ॥ ५७ ॥ दण्डाकारौ ततोऽङ्गुष्ठौ मध्यमानखदेशगौ । मुद्रैषोन्मादिनी नाम्ना क्लेदिनी सर्वयोषिताम् ॥ ५८ ॥ [६]सर्वरत्नाकरे चक्रे तथान्तर्दशकोणके । त्रैलोक्यमोहनं विष्णुं ध्यायेद्बन्धूकसंनिभम् ॥ ५९ ॥ ज(वा?पा)कुसुमसंकाशं दाडिमीकुसुमप्रभम् । उद्यदादित्यसंकाशं रत्नसिंहासनेऽम्बुजे ॥ ६० ॥ पद्मासनसमासीनं भुजैश्चतुर्भिरायतैः । पाशाङ्कुशौ च दधतं पुष्पबाणेक्षुकार्मुकम् ॥ ६१ ॥
१ 'रीम्' क पाठ. । २ 'मे मध्यमे' यजेत्' क पाठः ।
- भृगु स ससर्गो विसर्गसहित । इति सर्व्वोन्मादिनीबीजोद्धारः ।